OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 1, 2021

 विनोदसञ्चारिणः स्पृहयन् अट्टपाटिदेशस्य सूर्यकान्तिकेदारः।


 अट्टपाटि (केरलम्)> कुन्नन्चालप्रदेशेषु सूर्यकान्तिः विकसिता। प्लामरं सरसिक्कमुक्कस्थे यानमार्गस्य पार्श्वे पलनिस्वामिकौण्डर् नामकस्य कृषकस्य केदारे अर्ध एकर् परिमितौ भूमौ एव सूर्यकान्तिः प्रफुल्लिता। सूर्यकान्तिक्षेत्रं द्रष्टुं बहवः विनोदसञ्चारिणः विविधेभ्यः प्रदेशेभ्यः आगच्छन्ति। अर्ध एकर् परिमितौ भूमौ सार्धद्विकिलो मितं बीजम् उप्त्वा अनेन कृषिः समारब्धा। एतस्मात् १५० किलो परिमितं तैलबीजं लप्स्यते। तस्मात् ६० लिट्टर् तैलमपि लप्स्यते। विंशति वर्षात् पूर्वं पलनिस्वामिकौण्डरः सूर्यकान्त्याः कृषिं कृतवान् आसीत्। अन्ये कृर्षकाः अपि सूर्यकान्तिकृषिं अधिकतया कृतवन्तः आसन्। तत्समये तैलमर्दनाय यन्त्रशाला समीपे आसीत्। इदानीं कृषकाः सूर्यकान्तिकृषिं परित्यक्तवन्तः तदा यन्त्रशालायाः प्रवर्तनमपि स्थगितम्। इदानीं तैलमर्दनाय सुविधा विदूरस्थे कोयम्पत्तूर् देशे भवति।