OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 7, 2022

 जग्दीप् धनकरः भारतराष्ट्रस्य नूतनउपराष्ट्रपतिः।


नवदिल्ली> श्री जग्दीप् धनकरः भारतराष्ट्रस्य चतुर्दशतम-उपराष्ट्रपतित्वेन चितः। धनकरः ५२८ मतानि अलभत। विपक्षदलस्य स्थानाशिन्यः  मार्गरट् आल्वा १८२ मतानि अलभत। पञ्चदश मतानि असाधवः अभवन्। राजस्थाने जुन्जुनु जिल्लायां किताना नाम ग्रामः एव तस्य जन्मदेशः। पश्चिमवंगदेशस्य पूर्वतनराज्यपालः आसीत् एषः। राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयमन्त्रिणः, अन्ये नेतारः च जग्दीप् धनकराय शुभाशंसां प्रदत्तवन्तः।