OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 9, 2022

 कोमण् वेल्त् कायिकक्रीडायाः परिसमाप्तिः - भारताय चतुर्थस्थानम्। 

बर्मिङ्हामः> दिनदशकं दीर्घितायाः कोमण् वेल्त् राष्ट्राणां  कायिकक्रीडायाः यू के राष्ट्रे ह्यः परिसमाप्तिरभवत्। ६७ सुवर्णानि, ५७ रजतानि, ५४ कांस्यानि इति क्रमेण आहत्य १७८ पतकानि सम्पाद्य आस्ट्रेलिया  प्रथमस्थानमावहत्। ५७, ६६, ५३ इति क्रमेण आहत्य १७६ पतकैः आतिथेयराष्ट्रम् इङ्लान्ट् द्वितीयस्थानं प्राप। २६ सुवर्णैः सह ९२ पतकानि सम्प्राप्य कानडा तृतीयं स्थानं प्राप्तवत्। 

   भारताय चतुर्थस्थानं लब्थम्।  २२ सुवर्णानि, १६ रजतानि, २३ कांस्यानि च भारतेन प्राप्तानि। आहत्य ६१ पतकानि। आगामिनी कायिकक्रीडा २०२६ तमे वर्षे आस्ट्रेलियायं मेल्बणनगरे सम्पत्स्यते।