OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 20, 2022

 न्यूयोर्के गान्धिप्रतिमा भञ्जिता। 

न्यूयोर्क्> न्यूयोर्कनगरस्थे हैन्दवमन्दिरस्य पुरतः स्थापिता महात्मागान्धिनः पूर्णकायप्रतिमा कैश्चित् अज्ञातैः भञ्जिता। 'दक्षिण रिच् मण्ट् हिल्' इत्यस्य पुरतः वर्तमानस्य तुलसिमन्दिरस्य पुरतः आसीदियं प्रतिमा स्थापिता। 

  प्रादेशिकसमयमनुसृत्य मङ्गलवासरस्य  मध्याह्ने सार्धैकवादने आसीदियं घटना प्रवृत्ता। अक्रमिसंघे षट् जनाः आसन्निति स्पष्टीकृतम्। सप्ताहद्वयाभ्यन्तरे द्वितीयवारमेव गान्धिप्रतिमां प्रति आक्रमणं प्रवृत्तम्। 

   घटनामिमां न्यूयोर्कस्थः भारतीयस्थानपतिः अपालपत्। न्यूयोर्कस्थैः आरक्षकैः अन्वेषणमारब्धम्।