OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 17, 2022

भारतीय-प्रौद्योगिकी-संस्थानम्-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्।

संस्कृतसप्ताहमालक्ष्य भारतीय-प्रौद्योगिकी-संस्थान-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्। शिबरेऽस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयेन नियुक्ता संस्कृतशिक्षिका आचार्या शालिनीदीक्षिता शिविरपाठनस्य आरम्भं कृतवती।
शिबिरस्य उद्घाटनं डाॅ सोहम चक्रवर्ती वर्याणाम् उपस्थितौ सरस्वतीपूजनपुरस्सरम् अभवत्, श्री नवल किशोर पन्तः, श्री विष्णुदत्तगौड़ महोदयाः अपि सरस्वती पूजने समुपस्थिताः आसन्। रामजी दीक्षितः सरस्वती वन्दनां कृतवान्। आचार्या शालिनीदीक्षित द्वारा तत्र उपस्थितान् छात्रान् अत्यंत रुचिपूर्णविधिना संस्कृतभाषायां परिचयः पाठितः। अयं पाठनक्रमः प्रतिदिनं प्रचलिष्यति इति संस्थायाः अध्यक्षेण निगदितम् ।