OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 16, 2022

 भारतस्य अभिमानः अकाशपर्यन्तम्; लक्षपादाधिके ऊर्ध्वतायां राष्ट्रध्वजःपरिलसितः।


  स्वतन्त्रतायाः ७५ तमवर्षस्य भागतया अमृतमहोत्सवानुबन्धतया भारतस्य राष्ट्रध्वजम् भूतलात् लक्षपादाधिके ऊर्ध्वतायां उड्डयितम्। वायुफेनकस्य साहाय्येन ध्वजः १०६००० पादोन्नत्याम् उड्डयितः। बाह्याकाशे उड्डयितस्य राष्ट्रध्वजस्य चलनचित्रखण्डः सामाजिकमाध्यमेषु त्वरितप्रसारणमभवत्। 'स्पेस् किड्स् इन्ट्या' इति सङ्घटनेन छात्रान् बाह्याकाशवैज्ञानिके विषये प्रभावयितुम् उद्दिश्य आसीत् अयं विशेषोड्डयनम्।