OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 21, 2022

 उत्तरभारते अतिवृष्टिदुष्प्रभावः - ३० मरणानि, बहुत्र विविधानि नाशनष्टानि। 

नवदिल्ली> उत्तरभारतस्य ओडीशा,झार्खण्डः, उत्तरखण्डः,उत्तरप्रदेशः, हिमाचलप्रदेशः, इत्यादिषु राज्येषु अतिवृष्टिदुष्प्रभावेण त्रिंशदधिकाः जनाः मृत्युवशं गताः। उपदशजनाः अप्रत्यक्षाः अभवन्निति सूच्यते। हिमाचलप्रदेशे अतिवृष्ट्यनन्तरं सम्भूतेन भूस्खलनेन जलोपप्लवेन च २२ जनाः मृताः। तेषु अष्ट एकपरिवारीयाः भवन्ति। उत्तरखण्डे ओडीशायां च चतुश्शः झार्खण्डे  एकश्च मृत्युमुपगताः। 

  हिमाचले धर्मशालायां चक्कीनद्यां निर्मितः रेल्सेतुः विशीर्णः। जलोपप्लवे विविधाः प्रदेशाः निमग्ना अभवन्। माण्डि, कान्ग्रा, चम्पा जनपदेष्वेव अत्यधिकाः विनाशाः जाताः। विविधराज्येषु राजमार्गान् अभिव्याप्य ७४३ मार्गेषु गमनागमनानि स्थगितानि। 

  उत्तरखण्डे दह्राडूणस्थे रायपुरे मेघविस्फोटनेन सञ्जातया अतिवृष्ट्या नद्याः कूलङ्कषाः जाताः। सेतवः प्रवाहिताः। 

  वृष्टिदुष्प्रभावितस्थानेषु रक्षाप्रवर्तनानि समारब्धानि।