OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 9, 2022

 कोमण्वेल्त् - अन्तिमदिनमपि भारतस्य सुवर्णदिनम्। 

बर्मिङ्हामः> कोमण्वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धायाः अन्तिमदिनेSपि भारतस्य सुवर्णवृष्टिः सम्पन्ना। चत्वारि सुवर्णानि समेत्य ६ पतकानि राष्ट्रेण समार्जितानि। पिच्छकन्दुकस्पर्धासु त्रीणि सुवर्णपतकानि 'टेबिल् टन्निस्' स्पर्धायामेकं सुवर्णं च अन्तिमदिने भारताय लब्धानि। २२ सुवर्णानि अभिव्याप्य ६१ पतकैः भारतं चतुर्थस्थाने विराजते।

   ह्यः सम्पन्ने पिच्छकन्दुकक्रीडायाः महिलानाम् एकैकविभागस्य अन्तिमे प्रतिद्वन्द्वे पि वि सिन्धू सुवर्णं प्राप्तवती। एतस्यापि पुरुषविभागे लक्ष्यसेन् नामकः अपि सुवर्णं प्राप्तवान्। पुरुषाणां द्वितयविभागे रङ्किरड्डि - चिरागषेट्टी सख्याय सुवर्णपतकं लब्धम्। 

    पुरुषाणां   टेबिल् टन्निस्' क्रीडायाः अन्तिमचक्रे अचन्तशरत् कमलः सुवर्णं सम्प्राप्तवान्। होक्किक्रीडायां भारताय रजतपतकं सम्प्राप्तम्।