OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, August 18, 2022

 आङ् सान् स्यूची षड्संवत्सरीयकारागृहवासाय पुनरपि दण्डिता। 


बाङ्कोक्क्> म्यान्मारराष्ट्रस्य सार्वलौकिकनेत्री आङ् सान् स्यूची पुनरपि भ्रष्टाचारापराधिता सती कारागृहवासाय दण्डिता। प्रकरणचतुष्टयमारोप्य  षड्संवत्सरीयदण्डनमेव विहितम्। 

   गोप्यरूपेण आसीत् प्रकरणानाम् उपधा संवृत्ता। भ्रष्टाचारः, देशद्रोहमित्याद्यपराधान् प्रकल्प्य पूर्वमेव स्यूची ११ वर्षाणां कारागारदण्डनाय विहिता आसीत्। गतवर्षस्य फेब्रुवरिमासे म्यान्मरे प्रजातन्त्रीयसर्वकारं प्रतिलोमरूपेण तिरस्कृत्य सैनिकशासनं प्रतिष्ठितम्। ततः परं स्यूची बाह्यलोकात् अदृष्टा वर्तमाना भवति।