OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, May 10, 2024

 सूर्यमण्डले अतितीव्रः सौरवातः भविष्यति। वैद्युतिवितरणं विमानसेवां च प्रबाधेत।

   वाषिङ्टण्> अस्मिन् सप्ताहान्ते सूर्यमण्डले अतितीव्रः सौरवातः भविष्यति इति पूर्वसूचना अस्ति। सौरवातः भूमिं बाधिष्यते इति यु एस् राष्ट्रस्य बाह्याकाश -वातावरण - प्रवचन केन्द्रेण आवेदितम्। भूतले जीविनः भूमेः कान्तिकक्षेत्रेण सौरयूथवातात् संरक्ष्यन्ते। किन्तु सूचनासंवेदकतरङ्गानां घटनायां(signal system) विघ्नाः भवेयुः। बाह्याकाशपेटिकाः स्वपथात् व्यतियानं स्यात् इति वैज्ञानिकाः अभिप्रयन्ति। सूर्यस्य अन्तरिक्षे जायमानः  सौरवातः शुक्रवासरे विलम्बेन आरभ्य रविवासरपर्यन्तं स्थास्यति इत्येव निगमनम्। मा किं६० निमेषः आरभ्य९० निमेषपर्यन्तं अस्य प्रभावः भविष्यति।