OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 21, 2024

 इरानस्य राष्ट्रपतिः सहयात्रिकाश्च उदग्रयानदुर्घटनया मृताः।

इब्राहिम रैसी। 

राष्ट्रपतिं विना उदग्रयाने विदेशकार्यमन्त्री, इतरे प्रशासनकर्तारश्च। 

टहरान्> रविवासरे उदग्रयानदुर्घटनायां संलग्नाः इरानस्य राष्ट्रपतिः इब्राहिम रय्सिवर्यः [६३] विदेशकार्यमन्त्री हुसैन् अमीर् अब्दुल्लाहियानः [६०]  अन्ये यात्रिकाश्च मृत्युवशं प्राप्ताः इति इरानराष्ट्रेण दृढीकृतम्। दिनद्वयं यावत् इरानजनतायाः प्रार्थना विफला जाता। राष्ट्रे पञ्चदिनात्मकं दुःखाचरणं प्रख्यापितम्। 

  इरानस्य उत्तरपश्चिमप्रान्तप्रदेशे असर्बैजानस्थे जोफापर्वतमण्डले रविवासरे मध्याह्ने राष्ट्रपतेः 'बेल् २१२' नामकमुदग्रयानं दुर्घटनायां संलग्नमभवत्। दुष्टं पर्यावरणं हिमानी च अस्याः कारणमिति सूच्यते। 

  तुर्की रष्या राष्ट्रयोः साह्येन कृते अन्वीक्षणे भञ्जितं उदग्रयानं मृतशरीराणि च दृष्टानि।