OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 6, 2024

 केरले अतितापः उष्णतरङ्गभीषा च  अनुवर्तते। 

अनन्तपुरी> केरलराज्ये मासद्वयाधिकं यावदनुवर्तमाने ग्रीष्मकाले अतितापः आकेरलं जनान् क्लेशयति। राज्ये सर्वत्र जलदौर्लभ्यः, कृषिनाशः, प्राणिविनाशश्च अनुभूयन्ते।  पालक्काट्, कोल्लं, तृशूर् जनपदेषु तापमानं ३८ - ४० डिग्रि सेल्षियस् अनुभूयते। 

  राज्यं केन्द्र ऋतु विज्ञानीयविभागेन उष्णतरङ्गपट्टिकायां अन्तर्भावितम्। केरलस्य समुद्रतीरेषु 'अलीक समुद्र विक्षोभ‌ः' बहुवारं जायते स्म। 

  इटुक्की, पालक्काट्,मलप्पुरं, वयनाट्, तृशूर्, कोषिक्कोट्, कोल्लं जनपदेषु कदली, व्रीही, शाकानि इत्यादीनि कार्षिककैदार्याणि, एला मरीच जतु कह्वा जात्यादयः नाण्यकैदार्याश्च अनावृष्ट्या नाशितानि जातानि। मासैकाभ्यन्तरे शतकोटिरूप्यकाणाम् उत्पादननष्टं जातमिति कृषिविभागस्य प्राथमिकं गणनम्। अत्युष्णेन पञ्चशताधिका‌ः दोहनक्षमाः गावः विनष्टप्राणा‌ः जाता‌ः। अतितापनिमित्तनिर्जलीकरणेन द्वौ मनुष्यावपि मृतौ।

  मेय् मासस्य अष्टमदिनाङ्कपर्यन्तम् अत्युष्णः अतितापश्च अनुवर्तिष्यते इति पर्यावरणविभागेन सूचितम्।