OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, May 16, 2024

 होरायां १३० कि. मी वेगः। आ गमिष्यति वन्दे मेट्रो। 


   चेन्नै> वन्दे मेट्रो इति पट्टिकाशकटस्य परीक्षण धावनं विनाविलम्बं भविष्यति इति इन्टग्रल् कोच् फाक्टरि संस्थाधिकारिणः अवदन्। जूण् जुलै मासे एव परीक्षणधावनं भविष्यति। १२ यात्रापेटिकाः सन्त्यस्मिन्। 'मेमु' रेल् यानस्प परिष्कृतं रूपं भवति इदम्। होरायां ११० -१३० इति वेगेन भविष्यति अस्य धावनम्। यानानां मिथः घट्टनस्य परिहाराय कवचः इति सुविधा अपि अस्मिन् सजीकृतः अस्ति। प्रति पेटिकायां शतानाम् उपवेष्टुं तथा  द्विशतानां स्थातुं च शक्यते। प्रथमयात्रा चेन्नैतः तिरुप्पतिपर्यन्तं भविष्यति।