OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, May 11, 2024

 पाम्पन् सेतोः निर्माणं आगमिनि मासे पूर्णतां प्राप्स्यति।

    चेन्नै> पाम्पन् द्वीपं रामेश्वरं च भूखण्डेन सह संबध्नातुम् आविष्कृतः नूतन-समुद्रोपरितल-सेतुमार्गः समाप्तप्रायः भवति। महानौकायाः गमनसमये सेतुः उपरि उत्थास्यति। तदर्थं भीमाकारस्य उद्धरणकस्य (Lift) उभयानुबन्धकस्य अतीव कठिनतरम् उद्ग्रथनकर्म यथाविधि इदानीं सज्जीकृत्य प्रवर्तनाभ्यासं तस्य निरीक्ष्यते। प्रक्षुब्धे समुद्रे २.८ कि. मि. आयते निर्मितस्य सेतोः३३१ स्थम्भाः९९ स्तम्भबन्धाः (Girder) च सन्ति। जूण् मासस्य अन्तिमपादे सेतोः निर्माणप्रवर्तनानि पूर्णतां प्राप्स्यन्ति इति दक्षिण-रेल् यानविभागस्य अधिकारिणा प्रोक्तमस्ति।