OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, May 22, 2024

 वंगान्तरालसमुद्रे चक्रवातसाध्यता। 

केरले वर्षाः अनुवर्तन्ते।

अनन्तपुरी> वंगान्तरालसमुद्रे अद्य न्यूनमर्दरूपीकरणस्य साध्यता प्रोच्यते ऋतुविज्ञानीयविभागेन। शुक्रवासरे अयं न्यूनमर्दः चक्रवातेन सह तीव्रन्यूनमर्द इति रूपान्तरं प्राप्स्यतीति सूच्यते। तीव्रन्यूनमर्दः बङ्गलादेशः म्यान्मरादि देशान् प्रति गमिष्यति। 

  केरले दिनचतुष्टयं यावदनुवर्तमाना ग्रीष्मकालवर्षाः दिनत्रयपर्यन्तम् अनुवर्तिष्यन्ते। विविधजनपदेषु जागरणनिर्देशः कृतः। पत्तनंतिट्टा इटुक्की जनपदाभ्यां अद्य अतितीव्रवर्षाणां रक्तजागरणसूचना दत्ता। श्वः इयं सूचना इटुक्की पालक्काट् जनपदाभ्यां च। अन्येभ्यः अष्ट जनपदेभ्यः तीव्रवर्षाणाम् ओरञ्च् जागरणसूचना दत्ता।