OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 19, 2024

 किर्गिस्थाने स्वदेशि-विदेशिसंघर्षः - भारतीयछात्राणां कृते जागरणनिर्देशः। 

नवदिल्ली> किर्गिस्थानराष्ट्रे स्वदेशीयाः विदेशीयाश्च मिथः प्रतिद्वन्दः अभवत्। अतः भारतीयछात्राः वासस्थानात् बहिर्गमनाय न उत्सहेरन्  इति विदेशकार्यमन्त्रालयेन  निर्दिष्टम्।

 मेय् १३ तमे दिनाङ्के किर्गिस्थानस्य राजधान्यां बिष्कनगरे तद्देशीयछात्रैः सह  ईजिप्तीयछात्राः प्रतिद्वन्द्वमकुर्वन्। तस्य दृश्यप्रचरणानन्तरं  गतशुक्रवासरस्य रात्रौ तद्देशीयाः जनाः विदेशछात्राश्च  मिथः संघर्षः अभवत्। एतस्याधारेणैव भारतेन छात्राणां कृते जागरणनिर्देशः कृतः। पाकिस्थानेनापि एतादृशः निर्देशः कृतः। १५,००० भारतीययुवकाः १०,००० पाकिस्थानीययुवकाश्च बिष्कनगरे वैद्यतन्त्रं पठन्तीति सूच्यते।