OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 13, 2024

केन्द्रीयमाध्यमिकशिक्षामण्डल-परिणामः घोषितः।

   नवदिल्ली> केन्द्रीय-माध्यमिक शिक्षा-मण्डलेन (सी.बी.एस.ई.) इत्यनेन दश-द्वादश-कक्षयोः परिणामाः घोषिताः।  द्वादशकक्षायां सप्ताशीति दशमलव नवाष्ट प्रतिशतं छात्राः उत्तीर्णाः। यत् विगतवर्षापेक्षया शून्यदशमलवषड्पञ्च प्रतिशतम् अधिकं वर्तते। अस्य वर्षस्य सञ्जातपरीक्षायां चतुर्विंशतिसहस्राधिकं छात्रैः पञ्चनवतिः प्रतिशतं अङ्काः समर्जिता तत्रैव सपादलक्षाधिकं छात्रैः प्रतिशतं नवति अङ्काः अधिगताः। छात्राः www.cbseresults.nic.in इत्यत्र उतवा www.cbse.gov.in इत्यत्रापि स्वीयपरिणामान् अवलोकयितुं शक्नुवन्ति। प्रधानमन्त्री नरेन्द्रमोदी सी.बी.एस.ई;  परिक्षायाम् उत्तीर्णनां छात्राणाम् अभिनन्दनं कृतवान्।  छात्राणाम् उपलब्ध्या तेषां नैरन्तर्येण विहितैः प्रयासैः अत्यन्तं गर्वितः अस्ति इति एकेन सामाजिक-अन्तर्जाल-माध्यमेन सः उक्तवान्।