OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, May 28, 2024

 दिल्ल्यां  सप्त नवजातशिशवः अग्निदाहेन हताः। 

नवदिल्ली>पूर्वदिल्ल्यां विवेकविहारप्रदेशे  नवजातशिशुभ्यः प्रचाल्यमाने  निजीये आतुरालये दुरापन्नया अग्निबाधया सप्त नवजातशिशवः हताः। शनिवासरस्य अर्धरात्रौ 'बेबी केयर् न्यूबोण्' नामके आतुरालये आसीत् दुर्घटना। आतुरालयस्य अधःश्रेण्यां अनधिकृतेन प्रवर्तमाने प्राणवायुपूरणकेन्द्रे जातं स्फोटनमेव अत्याहितस्य हेतुरिति सूच्यते। 

  आतुरालस्य स्वामी पश्चिमविहारनिवासी डो  नवीन किच्ची गतदिने दिल्ली आरक्षकसेनया निगृहीतः।