OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 5, 2024

संस्कृतभारती द्वारा सम्भाषणबिन्दुविमर्शवर्गः समायोजितः।

       देहरादूनम् - संस्कृतभारतीदेहरादूनपरतया कार्यकर्तृभ्यः  सम्भाषणशिबिरसञ्चालनगतं कौशलम्  अर्जयितुं  सम्भाषणबिन्दुविमर्शवर्गः समायोजितः। यत्र मुख्यातिथिरूपेण उत्तराञ्चलप्रान्तस्य संगठनमंत्री गौरव शास्त्री  अकथयत् यत् शिविरसञ्चालनदृष्ट्या सम्भाषणबिन्दुविमर्शवर्गस्य आयोजनम् अत्यन्तम् अपेक्षितव्यम्। तेन विना शिविरसञ्चालनं सम्यक्तया न संभवति। संस्कृतभारत्याः आधारस्तम्भः संभाषणशिविरम् एव। विभागसंयोजकः नागेन्द्रव्यासः वर्गोद्देश्यानि उल्लिखितवान्। सत्रसंयोजकः जनपदमन्त्री प्रदीपसेमवालः मुख्यातिथये स्वागतं व्याहृत्य वर्गस्य प्रास्ताविकम् अपठत्। महानगरशिक्षणप्रमुखः डॉ राजेश शर्मा  शिक्षणबिन्दुषु विस्तारेण प्रकाशं क्षिप्तवान्।  सह विभागसंयोजकः डॉ नवीनजसोला   भाषापरिष्कारविषये व्याख्यानं दत्तवान्। कार्यकर्तृशिक्षकैः तत्तद्बिन्दुषु शिक्षणाभ्यासः विहितः।  वर्गः अयं प्रातः नववादनतः सायं पञ्चवादनं यावत् प्राचलत्। केन्द्रप्रमुखः योगेशकुकरेती एतन्निमित्तम् उत्तमव्यवस्थाम् अकरोत्।  अवसरेस्मिन् महानगरमन्त्री माधवपौडेलः, सम्पर्कप्रमुखः धीरजमैठाणी, डॉ आनन्दजोशी, डॉ अनुमेहाजोशी, शिवानीरमोला, अजयनौटियालः, धीरजविष्टः, श्वेतारावतः, गीतिका, कृशा, शालू, काजल, बीनापुरोहितः, अभिजितः, वाणी, श्रुतिः इत्यादयः दायित्वकार्यकर्तारः, सामाजिकाः, छात्राश्च समुपस्थिताः आसन्।