OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 27, 2024

 कान् चलच्चित्रोत्सवे भारतस्य अभिमानप्रकाण्डः। 

पुरस्कारसहिता पायल्कपाडिया [वामतः द्वितीया] दिव्यप्रभा, छाया कदम, कनि कुसृती इत्येताभिः नटिभिः सह।

पायल् कपाड़िया , सन्तोष् शिवः, अनसूया सेन् गुप्ता इत्येते पुरस्कृताः। 

सन्तोष् शिवः। 

कान् [फ्रान्स्]> ७७ तम अन्ताराष्टीय कान् चलच्चित्रोत्सवे भारतस्य पुरस्कारपूर्णता। सर्वोत्तमचलनचित्राय दीयमानः द्वितीयपुरस्कारः भारतीयनिदेशिका पायल् कपाडिया इत्यस्याः निदेशकत्वे साक्षात्कृतेन 'ओल् वी इमाजिन् अस् लैट्' [All We Imagin as Light] इति कृतनामधेयेन चलच्चित्रेण प्राप्तः। ८०% मलयालभाषायां निर्मितेSस्मिन् चलच्चित्रे केन्द्रकथापात्रत्वेन केरलीये कनि कुसृति , दिव्यप्रभा इत्येते अभिनयं कृतवत्यौ। 

  अस्य चलच्चित्रोत्सवस्य अंशतया दीयमानाय 'पीयर् अजन्यू' पुरस्काराय केरलीयः छायाग्राहकः सन्तोष् शिवः चितः। छायाग्रहणमण्डलस्य समग्रयोगदानं पुरस्कृत्य दीयमानः पुरस्कारः भवत्येषः। एतत्पुरस्कारार्हः प्रथमः एष्यानिवासी भवति भारतीयः सन्तोष् शिवः। 

  अस्य चलच्चित्रोत्सवस्य अंशतया नवभावुकाय नवपथाय नवराष्ट्राय च दीयमाने Uncertain Regard इस्यस्मिन् विभागे श्रेष्ठा अभिनेत्रिरूपेण कोल्कोत्ता निवासिनी अनसूया सेन् गुप्ता पुरस्कृता। 'दि षेम्लस्' [The Shameless] नामके हिन्दीभाषाचित्रे अभिनय एव पुरस्कारार्हः अभवत्। अस्मिन् विभागे पुरस्कारार्हा प्रथमा भारतीया भवति अनसूया। बल्गेरियाई निदेशकः कोण्स्टान्टिन् बोजनोव् नामकः भवत्यस्य चलनचित्रस्य निदेशकः।