OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, May 5, 2024

 जम्मुकाश्मीरे पूञ्च् प्रदेशे भीकराक्रमणः। सैनिकस्य वीरमृत्युः। पञ्च सैनिकाः व्रणिताः ।

जम्मुकाश्मीरस्य पूञ्च् प्रदेशे व्योमसेनायाः यानं प्रति जायमाने भीकराक्रमणे एकस्य सैनिकस्य वीरमृत्युः अभवत्। पञ्च सैनिकाः व्रणिताश्च। एकस्य स्थितिः गुतरा वर्तते। सुरान् कोट्टे मण्डलस्य सनायि ग्रामे आसीत् भीकराणाम् आक्रमणम्। सैनिकवाहनस्योपरि द्वौ भीकरौ गोलिकाप्रहरं कृतवन्तौ आस्ताम्। व्रणिताः सैनिकाः उदम्पूरस्य सैनिकातुरालयं प्रविष्टाः। राष्ट्रियरैफिल्स् इति सैनिकविभागेन घटनासंबन्धितया अन्वेषणम् आरब्धम्।