नेपालप्रलयः - मरणानि १४००।
५८०० + अदृश्यमानाः।
काठ्मण्डुः> हिमानिभञ्जनेन नेपालराष्ट्रे दुरापन्ने आकस्मिकप्रलये नेपाले टिबटे च मृतानां संख्या १४०० अतीता। ५८०० तः अधिके जनाः इदानीमपि अदृश्यमानाः वर्तन्ते। अदृष्टेषु ५८९ विदेशीयाः अन्तर्भवन्तीति नेपालसर्वकारेण निगदितम्। उप चत्वारिंशत् सहस्रं जनाः रक्षासेनया रक्षिताः।
चिट्वान्, नुवाकोट्, रासुवा इत्यादिभ्यः जनपदेभ्यः एव अधिकसंख्यकानि मृतशरीराणि उपलब्धानि। मृतशरीराणि अधिकदूरं प्रवहितानि इत्यतः प्रत्यभिज्ञानं दुष्करमस्ति। डि एन् ए परिशोधनया प्रत्यभिज्ञाताः उपशतं मृतदेहाः बान्धवेभ्यः हस्तान्तरीकृताः।