OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 9, 2026

 नेपालप्रलयः - मरणानि १४००। 

५८०० + अदृश्यमानाः। 

काठ्मण्डुः> हिमानिभञ्जनेन नेपालराष्ट्रे दुरापन्ने आकस्मिकप्रलये नेपाले टिबटे च  मृतानां संख्या १४०० अतीता। ५८०० तः अधिके जनाः इदानीमपि अदृश्यमानाः वर्तन्ते। अदृष्टेषु ५८९ विदेशीयाः अन्तर्भवन्तीति नेपालसर्वकारेण निगदितम्। उप चत्वारिशत् सहस्रं जनाः रक्षासेनया रक्षिताः। 

  चिट्वान्, नुवाकोट्, रासुवा इत्यादिभ्यः जनपदेभ्यः एव अधिकसंख्यकानि मृतशरीराणि अधिगतानि। मृतशरीराणि अधिकदूरं प्रवहितानि इत्यतः प्रत्यभिज्ञानं दुष्करमस्ति।  डि एन् ए परिशोधनया प्रत्यभिज्ञाताः उपशतं मृतदेहाः बान्धवेभ्यः हस्तान्तरीकृताः।