नेपालप्रलयः।
सुरङ्गात् एकोSपि रक्षितः।
काठ्मण्डुः> नेपाले आकस्मिकप्रलयात् त्रिशूली जलविद्युतभियोजनायाः सुरङ्गे लग्नः कश्चन चीनीयः सजीवं बहिर्नीतः। प्रलयानन्तरं ११ दिनेभ्यः परमेव रक्षणम्। सुरङ्गस्य २२५ मीटर् अन्ततः आसीदयं बहिर्नीतः।