OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 6, 2026

 हिन्दुकुष हिमालये हिमानी अतिशीघ्रं द्रवते।

कोच्ची> अस्य शतकस्य आरम्भात् हिन्दुकुष हिमालयपर्वतश्रेण्यां हिमानी आशङ्काजनकरीत्या द्रवते इत्यधिगमः। International Center for Integrated Mountain Development (ICIMD) संस्थया कृते अनुशीलने अस्ति अयमधिगमः। महानदीः आश्रयमाणाः एष्याभूखण्डनिवासिनः बिल्यण् द्वयमिताः जनाः जीवने सन्दिग्धताम् अभिमुखीकुर्वन्तीति आवदने सूच्यते। कोटिशः जनानां भोज्य-जल-ऊर्ज-जीवजालसुरक्षा इत्यादयः प्रतिकूलेन भविष्यन्ति। 

  अफ्गानिस्थानादारभ्य म्यान्मरपर्यन्तं ३,५०० कि मी व्याप्यमानः, विश्वस्मिन् मुख्यपर्वतश्रेणिषु अन्यतमः भवति हिन्दुकुष हिमालयः। ध्रुवप्रदेशान् विहाय बृहत्तमः हिमसञ्चयः अत्रैव वर्तन्ते।