नेपथ्या 'कूटियाट्टमहोत्सवः' समाप्तः। 
मायासीताङ्कात् किञ्चन दृश्यम्।
मूष़िक्कुलं> 'नेपथ्या' इति कूटियाट्टकलाकेन्द्रस्य नेतृत्वे आयोजितः कूटियाट्टमहोत्सवः मायासीताङ्कस्य प्रस्तुतेन समाप्तः। आगस्ट् मासस्य १९ तमे दिनाङ्के आरब्धः महोत्सवः चरणद्वयेन १४ दिनात्मकः आसीत्। युनेस्को संस्थया विश्वपैतृककवारूपावल्यां अन्तर्भूतं कूटियाट्टम् इति केरलीयपारम्पर्यकलारूपस्य प्रौढिम् अभिनयवैशिष्ट्यं कलाश्रेष्ठत्वं च आस्वादकेभ्यः परिचायनं क्रियमाणाः विभिन्नाः प्रस्तुत्यंशाः मञ्चे अवतारिताः।
शक्तिभद्रस्य आश्चर्यचूडामणिनाटकस्य तृतीयः अङ्कः नाम्ना मायासीताङ्कः, भासस्य प्रतिमानाटके पञ्चमाङ्कश्च [रावणाङ्कः] आसीत् मुख्यप्रस्तुतिः। सीतापहरणमेव अङ्कद्वयस्यापि इतिवृत्तं, तथापि विभिन्नयोः नाटककारयोः रचनाद्वये एकः एव कथातन्तुः विभिन्नया नाटकीयतया अभिनयरीत्या आविष्कृत इति कूटियाट्टमहोत्सवस्य वैशिष्ट्यमासीत्।
प्रोफ. डेविड् षूल् मान्, भरतनाट्यनर्तकी लीला सांसणः, डो सुधा गोपालकृष्णः, डो के जि पौलोस् इत्यादयः, भारतीयाः वैदेशिकाश्च बहवः कलास्वादकाः गवेषकाश्च महोत्सवे भागं गृहीतवन्तः।