OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 8, 2026

 नेपथ्या 'कूटियाट्टमहोत्सवः' समाप्तः। 

मायासीताङ्कात् किञ्चन दृश्यम्। 

मूष़िक्कुलं> 'नेपथ्या' इति कूटियाट्टकलाकेन्द्रस्य नेतृत्वे आयोजितः कूटियाट्टमहोत्सवः मायासीताङ्कस्य प्रस्तुतेन समाप्तः।  आगस्ट् मासस्य १९ तमे दिनाङ्के आरब्धः महोत्सवः चरणद्वयेन १४ दिनात्मकः आसीत्। युनेस्को संस्थया   विश्वपैतृकदृश्यरूपकेषु अन्तर्भावितं भवति कूटियाट्टम्। तस्य सांप्रदायिककैरलीयकलारूपस्य अर्थगर्भत्वम् अभिनयवैशिष्ट्यं कलाश्रेष्ठत्वं च आस्वादकेभ्यः परिचायनं क्रियमाणाः विभिन्नाः प्रस्तुत्यंशाः मञ्चे अवतारिताः। 

  शक्तिभद्रस्य आश्चर्यचूडामणिनाटकस्य तृतीयः अङ्कः नाम्ना मायासीताङ्कः, भासस्य प्रतिमानाटके पञ्चमाङ्कश्च [रावणाङ्कः] आसीत् मुख्यप्रस्तुतिः। सीतापहरणमेव अङ्कद्वयस्यापि इतिवृत्तं,  तथापि द्वयोः रचयित्रोः विभिन्ने रचनाद्वये एकः एव कथातन्तुः विभिन्नतया नाटकात्मकतया भिन्नाभिनयरीत्या मञ्चे आविष्कृतः आसीत् इत्येतत् कूटियाट्टमहोत्सवस्य वैशिष्ट्यम्।  

  प्रोफ. डेविड् षूल् मान्, भरतनाट्यनर्तकी लीला सांसणः, डो सुधा गोपालकृष्णः, डो के जि पौलोस् इत्यादयः, भारतीयाः वैदेशिकाश्च बहवः कलास्वादकाः गवेषकाश्च महोत्सवे भागं गृहीतवन्तः।