१२१ जनाः सुरङ्गेषु लग्नाः इति सन्देहः।
काठ्मण्डुः> नेपाले दुरापन्ने आकस्मिकप्रलये अदृष्टानां मार्गणं सर्वकारेण प्रबलं कारितम्। भग्नानां जलविद्युदायोजनानां सुरङ्गेषु १२१ जनाः लग्नाः वर्तन्ते इति नूतनी सूचना अस्ति। नेपालसेनया अत्याधुनिकोपकरणैः सुरङ्गेषु अन्वेषणम् अनुवर्तते।