आरवल्ली निर्वचनं- अधिककालः न दातव्यः।
नवम्बर् ३० तमाभ्यन्तरे आवेदनपत्रं समर्पणीयमिति सर्वोच्चन्यायालयः।
आरवल्ली पर्वतश्रेणी।
नवदिल्ली> आरवल्ली पर्वतश्रेण्याः एकीकृतनिर्वचनं समर्पयितुं अधिककालः आवश्यक इति उन्नताधिकारसमित्याः निवेदनं सर्वोच्चन्यायालयेन निरस्तम्। नवम्बर् त्रिंशद्दिनाभ्यन्तरे अन्तिमावेदनपत्रं समर्पयितुं न्यायालयेन कर्कशनिर्देशः दत्तः। २०२७ फेब्रुवरि २८ दिनाङ्कपर्यन्तम् इत्यासीत् समित्याः कालाधिकाभ्यर्थना।
गुजराततः आरभ्य दिल्लीपर्यन्तं व्याप्यमानायाः ६९३ कि मी दैर्घ्ययुक्तायाः आरवल्ली पर्वतश्रेण्याः शास्त्रीयं निर्वचनं कर्तुं पर्वतश्रेण्याः खनन-पारिस्थितिकाघातान् वस्तुनिष्ठेन मूल्यनिर्णयं कर्तुं च Indian Council of Forestry Research & Education Director General पदीयायाः काञ्जन देव्याः नेतृत्वे पञ्चसदस्योपेता समितिः रूपीकृता आसीत्।
न्यायाधिपः जोय् मल्या बोग्चि, न्याया. वि मोहनः इत्येताभ्यामुपेतः नीतिपीठ एव कर्कशनिर्देशम् आदिदेश। प्रकरणं डिसम्बर् द्वितीयदिनाङ्के सर्वोच्चन्यायालयेन पुनः परिगणयिष्यते।