OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, November 18, 2025

 स्मृतिशक्तिमतः अजि अर् इत्यस्य नाम गिन्नस् पुस्तके अङ्कितम्।

केरलेषु IQ Man इति सुज्ञातः  अर् इत्यस्य नाम गिन्नस् पुस्तके अङ्कितम्। केवलं चत्वारि निमिषेण ४८ संख्याः स्मृत्वा उक्तवान्। मनुष्येभ्यः असाध्यम् इति चिन्तितं  कार्यम् एव महोदयेन साध्यम् अकरोत् । ३० संख्याः निमिषचतुष्टयेन स्मृत्वा उक्तवतः पाकिस्थानीयस्य गिन्नस् प्रमाणमेव अनेन महोदयेन अतिक्रम्य पिधानीकृतम्। छात्रेभ्यः इयं विद्या पाठयितुम् उद्दिश्य महोदयः आविश्वम् अटनं कुर्वन्नस्ति ॥

Monday, November 17, 2025

मणप्पुरं सेन्ट् तेरेसास् उच्चविद्यालयस्य सुरक्षितमार्ग-योजना ४१८ दिनानि पूर्तीकृतानि।

  आलप्पुष़> केरलेषु प्रसिद्धः चावर कुर्याक्कोस् नाम क्रिस्तीयपुरोहितस्य  शिष्यप्रमुखैः संस्थापितः विद्यालयः भवति सेन्ट् तेरेसास् विद्यालयः। विद्यालयेऽस्मिन् विविधानि शिक्षानुबन्धानि प्रवर्ततानि प्रचलन्ति। तेषु एकः कार्यक्रमः भवति 'सुरक्षितमार्गः'। विद्यालयस्य प्रधानमार्गः सदा याननिबिडः भवति। अतः विद्यालये गमनागमनाय मार्गस्य पारं गन्तुं क्लेशमनुभवन्ति छात्राः। अतः विद्यालयाधिकारिभिः 'सुरक्षायै एका होरा' इति नामनि योजना समारब्धा। प्रतिदिनं विद्यालये छात्राणां गमनागनकाले एकहोरापर्यन्तं वाहननियन्त्रणं छात्राणां तथा अध्यापकानां गणः एव करोति। प्रादेशिकाः प्रौढजनाः तान् प्रोत्साहयन्ति। अद्य योजनायाः ४१८ तमं दिनम् आसीत् । 

  अद्यआरभ्य इयं सुरक्षितमार्गयोजना कुट्टूकारन् ट्रस्ट् इत्यस्य CSR राशिमुपयुज्य विपुलया रीत्या समारब्धा। करुकुट्टी प्रदेशे विद्यामान SCMS यन्त्र वैज्ञानिक-विद्यालयस्य Road safety and Transportation इति विभागस्य नेतृत्वे इयं योजना केरलेषु विविधजनपदेषु प्रचलति। 

    अस्याः सुरक्षितमार्गयोजनायाः उद्घाटनं चेर्तल लीगल् सर्वीस् सोसैटी इति संस्थायाः सचिवेन बिजु के. वि महोदयेन कृतम्। छात्रेभ्यः सुरक्षानियमान् अधिकृत्य वर्गः अपि महोदयेन चालितः। कार्यक्रमे विद्यालयस्य प्रबन्धकः बहु. वैदिकः जेयिंस् पुतुशेरी अध्यक्षभाषणम् अकरोत्। प्रध्यापिका रजी एब्रहां स्वागतम् अकरोत्। मातृसमित्याः अध्यक्षा जिषा विजयकुमारः, नियमसहाय समित्याः सञ्चालिका गिरिजा के, सन्या. अनुपमा विद्यालयस्य संस्कृताध्यापकः हरिकुमारः च भाषणम् अकुर्वन्। 



 चन्द्रयानं ४ विक्षेपणं २०२८ तमे।

भारतस्य चन्द्रयानदौत्यम् अनुवर्तते । चन्द्रयानं ४ विक्षेपणं २०२८ तमे भविष्यति। ततः पूर्वं गगनयानदौत्यं भविष्यति। २०२७ तमे मनुष्यः याने भविष्यति। एषा एव प्रथमा मुख्ययोजना इति ऐ एस् आर् ओ अध्यक्षः वि नारायणः अवदत् । अस्मिन् वर्षे सप्त कार्ययोजनाः अपि करणीयाः सन्ति इत्यपि सः PTI संस्थां प्रति उक्तवान्। 

चन्द्रात् मृदंशस्य स्वीकरणं तस्य आनयनं च चन्द्रयानं ४ इत्यनेन उद्दिश्यते। भारतस्य बहिरकाशनिलयस्य संस्थापनाय निमाणप्रवृत्तयः समारब्धाः २०३५ तमे लक्ष्यपूर्तिः भविष्यति इत्यपि महोदयेनोक्तम् ॥

 कटवल्लूर् 'अन्योन्यम्' समारब्धम्। 

अन्योन्यस्य आवलीतः गृहीतं चित्रम्।

कटवल्लूर्> केरले तृश्शूर जनपदस्थे कटवल्लूर् श्रीरामस्वामिमन्दिरे प्रतिवर्षं प्रचाल्यमाना ऋग्वेदपाण्डित्यपरीक्षा 'कटवल्लूर् 'अन्योन्यम्' नामकं समारब्धम्। राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः चलनदृश्यसन्देशद्वारा उद्घाटनमकरोत्। कोचिन् देवस्वं बोर्ड् संस्थायाः अध्यक्षः के रवीन्द्रः उद्घाटनकार्यक्रमे अध्यक्षः अभवत्। 

  तिरुनावाय मठं [मलप्पुरं] , ब्रह्मस्वं मठ [तृश्शूर्] इत्यत्रयोः वेदाध्ययनछात्राः एव अष्टदिनात्मिकायाम्  अस्यां स्पर्धायां भागं कुर्वन्ति।

Sunday, November 16, 2025

 हरितगमनागमनम् 

'कोच्ची मेट्रो' राष्ट्रीय पुरस्कारेण बहुमानितम्। 

कोच्ची> हरितगमानागमनमण्डले उपलब्धायाः श्रेष्ठतायाः कोच्ची मेट्रो रेल् यानसेवासंस्था राष्ट्रीयपुरस्कारेण सम्मानिता। केन्द्रप्रशासनस्य भवन-नगरकार्यविभागेन विधत्तः City with best green transport initiative नामकपुरस्कार एव लब्धः। हरियानस्थे गुरुग्रामे आयोजिते कार्यक्रमे  केन्द्र भवन-नगरकार्यविभागस्य मन्त्री मनोहरलालः पुरस्कारमदात्।

 काश्मीरे आरक्षकस्थाने महास्फोटनम्

नव मरणानि, ३२ जनाः आहताः। 

स्फोटनं गृहीतस्फोटकानां परिशोधनावेलायाम्।

नवदिल्ली> जम्मु काश्मीरस्थे नौगाम आरक्षकस्थाने परिपालितानि स्फोटकवस्तूनि विस्फोट्य आपन्नायां दुर्घटनायां नव अन्वेषणाधिकारिणः मृताः। ३२ जनाः व्रणिताः सन्तः आतुरालये परिचर्यायां वर्तन्ते। व्रणितेषु २७ जनाः आरक्षकाः भवन्ति। केन्द्रसर्वकारेण अन्वेषणमारब्धम्। 

  गतसप्ताहे दिल्ल्यां रक्तदुर्गसमीपे जातस्य स्फोटनस्य अंशतया अपराधिषु अन्यतमस्य डो मुसम्मिल् षक्कीलस्य हरियाने फरीदाबादस्थात् वासगृहात् निगृहीतानि स्फोटकवस्तूनि नौगामस्थे आरक्षकस्थाने परिशोधनायां कृतायां प्रमादेन विस्फोटितमासीत्। 'फोरन्सिक्' विभागस्थाः त्रयः, 'रवन्यू' अधिकारिणौ द्वौ, द्वौ आरक्षकविभागस्य छायाग्राहकौ, एकः आरक्षणाधिकारी, एकः सीवकः इत्येते मृत्युमुपगताः। प्रमादेन जाता दुर्घटना एषा, ऊहापोहानां स्थानं नास्तीति केन्द्रगृहमन्त्रालयाधिकारी  प्रशान्त लोखण्डे अवदत्।

Saturday, November 15, 2025

 दिल्ली भीकराक्रमणम्। 

उमर् नबी इत्यस्य पुल्वामस्थं भवनं सैन्येन विशीर्णितम्। 

उमर् नबी इत्यस्य गृहं विशीर्णावस्थायाम्।

श्रीनगरं> दिल्ल्यां रक्तदुर्गसमीपे आत्मघातिरूपेण भीकराक्रमणं कृतवतः डो उमर् नबी इत्यस्य दक्षिणकाश्मीरस्थे पुल्वामप्रदेशस्थं वासगृहं सुरक्षासेनया शुक्रवासरे प्रत्युषसि विशीर्णितम्। तत्रस्थान् बन्धुजनान् अपाकृत्यानन्तरमासीत् प्रक्रमः। ये भीकरप्रवर्तनाय सहयोगं कुर्वन्ति तेभ्यः पूर्वसूचना भवतीयं प्रक्रम इति अधिकृतैरुक्तम्। पुल्वामा भीकराक्रमणे भागं कुर्वतां गृहाण्यपि एतादृशं विशीर्णितानि आसन्। अतीते सोमवासरे  रक्तदुर्गसमीपे आपन्ने स्फोटने १३ जनाः मृताः आसन्।

 बिहारे विधानसभानिर्वाचनम् एन् डि ए सख्येन परिसंगृहीतम्। 

आहत्य - २४३, एन् डि ए सख्यं - २०२, महासख्यं - ३४, इतरे - ७।

एन् डि ए सख्यप्रवर्तकानां विजयाह्लादः। 

पाट्ना>  आराष्ट्रं साकूतमवलोक्यमानं बिहारराज्यस्य विधानसभानिर्वाचनस्य मतगणने सम्पन्ने भाजपा-जेडियू नेतृत्वोपेतेन एन् डि ए सख्येन महाविजयमवाप। २४३ सदस्योपेतसभायाः २०२ स्थानानि सख्येनावाप्तानि। 

  भाजपादलं  ८९ स्थानानि अवाप्य सभायां बृहत्तमं दलमभवत्। जेडियूदलेन ८५ स्थानानि सम्प्राप्तानि। जेडियूदलस्य अनिषेध्यनेता नितीश कुमारः मुख्यमन्त्री भविष्यतीति सूच्यते। शपथवाचनं १८ तमे दिनाङ्के स्यात्।

  आर् जे डी- कोण्ग्रस् नेतृत्वे विद्यमानं 'महासख्यं' दयनीयपराजयमन्वभवत्। महासख्येन ३४ स्थानानि प्राप्तानि। आर् जे डी- २५, कोण्ग्रस् - ६।

Friday, November 14, 2025

 बिहारे निर्वाचनफलन् अद्य प्रकाश्यते ।

बिहारस्य नियमसभा निर्वाचनस्य फलम् अद्य प्रकाश्यते । प्रभाते ८.३० वादने प्रथमफल सूचना लब्धुमर्हति। ३८ जनपदेषु ४६ मतगणनाकेन्द्राणि सज्जीकृतानि सन्ति । सुरक्षायै गणनाकेन्द्रेषु अर्धसैनिकाः विन्यस्ताः विद्यन्ते ।

Thursday, November 13, 2025

 दिल्ली स्फोटनम्। 

भीकराक्रमणमिति स्थिरीकृत्य केन्द्रप्रशासनम्। 

नवदिल्ली> गतदिने दिल्ल्यां  रक्तदुर्गस्य [Red Fort] समीपं १२ जनानां अकालमृत्योः हेतुभूतस्य कार् यानविस्फोटनस्य पृष्ठतः  भीकरसम्बन्धः केन्द्रसर्वकारेण दृढीकृतः। केन्द्रमन्त्रिमण्डलेन स्फोटनम् अपलपितम्। अपराधिनः तेषां पृष्ठतः ये प्रवर्तितवन्तः तान् च यावच्छ्रीघ्रम् अधिगम्य नीतिपीठस्य पुरतः आनयिष्यतीति मन्त्रिमण्डलेन निर्णीतम्।

 अमेरिकां विना ब्रसीले पर्यावरणशिखरसम्मेलनम् आरब्धम्। 

बेलेमः [ब्रसीलः]> आगोलतापनस्य न्यूनीकरणाय क्रियमाणान् प्रयत्नान् प्रबलीकर्तुं समायोजितं ३० तमम् आगोलपर्यावरणशिखरसम्मेलनं [सि पि ओ - ३०] आमसोण् काननस्य समीपस्थे ब्रसीलनगरे  बेलेमे आरब्धम्। किन्तु २०१५ तमवर्षस्य पर्यावरणसन्धेः निवर्तयितुं निर्णीतात् यू एस् राष्ट्रात् कोSपि प्रतिनिधिः न प्रेषितः।

 केरले प्रादेशिकसर्वकारनिर्वाचनाय विज्ञप्तिः उद्घोषिता। 

अनन्तपुरी> केरलराज्ये तद्देशीयस्वयंशासनसंस्थाभ्यः निर्वाचनाय दिनाङ्कः उद्घोषितः। निर्वाचनाय चरणद्वयं भविष्यति। डिसम्बर् नवमदिनाङ्के सम्पत्स्यमाने प्रथमचरणे तिरुवन्तपुरं जनपदात् एरणाकुलपर्यन्तं सप्तसु जनपदेषु मतदानप्रक्रिया भविष्यति। डिसम्बर् ११ तमे दिनाङ्के सम्पत्स्यमाने द्वितीयचरणे इतरेषु सप्तजनपदेषु निर्वाचनं भविष्यति। मतगणना १३ तमे दिनाङ्के अस्ति।

Wednesday, November 12, 2025

 बिहारे द्वितीयचरणे ६८. ९% मतदानम्।

पाट्ना> बिहारे विधानसभानिर्वाचनस्य द्वितीयचरणे ६८. ९% मतदानं सम्पन्नमिति निर्वाचनायोगेन निगदितम्। राज्यचरित्रे सर्वकालीनाभिलेख्यमिति सूच्यते। प्रथमचरणे ६४.६% मतदानं सम्पन्नमासीत्। १४ तमे दिनाङ्के मतगणना भविष्यति।

 दिल्ली स्फोटनम्। 

आत्मघात्याक्रमणं सन्दिह्यते।

दिल्ली> गतदिने दुरापन्नं कार् यानस्फोटनम् आसूत्रितमिति गृहमन्त्रालयेन सूचितम्। तत्र भीकरवादिनां भागभागित्वं नावगणनीयमिति अधिकारिभिः सूचितम्। 

  जेय्षे मुहम्मद इत्यस्य संघटनस्य भागभागित्वं सन्दिह्यते। अतः आत्मघात्याक्रमणमेव विधत्तमिति सूच्यते। कार् यानस्य इदानीन्तनस्वामी आरक्षकैः निगृहीतः।

Tuesday, November 11, 2025

 मालद्वीपे भारतस्य साहाय्येन निर्मितं अन्ताराष्ट्रियविमानपत्तनम् उद्घाटितम्।

  बहुकालं यावत् नयनीतिविच्छेदेन पीडिते  मालद्वीपे भारतस्य साहाय्येन निर्मितं हनीमाधू विमानपत्तनं मालद्वीपस्य राष्टपतिना मुहम्मद् मुयिसु महोदयेन उद्घाटितम्। रविवासरे समापन्ने समारोहे भारतस्य केन्द्रव्योमयानसचिवः के राम्मोहन् नायिडुः भागं स्वीकृतवान्। भारतस्य मालिद्वीपस्य च मिथः षष्टिवर्षपर्यन्तं स्थितस्य नयनीतिबन्धस्य स्मारकोऽयं भवति विमानपत्तनमिदम् इति मुयिसुना अभिप्रेतम्।

 दिल्ल्यां महत्स्फोटनं - १३ जनाः हताः। २४ जनाः आहताः।

रक्तदुर्गः। 

दिल्ली> प्राचीनदिल्ल्यां 'रक्तदुर्गस्य' [Red Fort] समीपे मेट्रो निस्थानस्य प्रथमद्वारस्य समीपे महत् कार् यानस्फोटनेन १३ जनाः हताः। २४ जनाः व्रणिताः। व्रणिताः समीपस्थं लोकनायक जयप्रकाश् नारायण आतुरालयं प्रवेशिताः। 

  सोमवासरे सायं ६. ५२ वादने आसीत् स्फोटनमिति अधिकृतैः निगदितम्। प्रसिद्धस्य रक्तदुर्गस्य समीपं मन्दं चलितवत् कार् यानं महाशब्देन विस्फोटितमासीत्। अग्निप्रकाण्डः समीपस्थानि यानानि प्रसारयत्। उपदशं वाहनानि नाशितानि। 

  दिल्ल्यामशेषम् अतिजाग्रत्ता विज्ञापिता। स्फोटने भीकरबन्धः सन्दिह्यते इत्यनेन भीकरविरुद्धसंघः दुर्घटनास्थानमेत्य सूचना‌ः समग्रहीत्।

 रष्यराष्ट्रे सैनिकउद्योगस्थानाम् उदग्रयानं भग्नम् ॥

मोस्को> रष्यस्य सैनिकोद्योगस्थाः उदग्रयानदुर्घटनया हताः। KA -226 इति उदग्रयानमेव दुर्घटनया भग्नः। पञ्च जनाः हताश्च। किसलियारतः इसबरबाषं प्रति गमनसमये आसीत् इयं दुर्घटना।


Monday, November 10, 2025

 वन्दे भारतश्रेण्याः चत्वारि यानानि च उद्घाटितानि। 

वाराणसी> वन्दे भारतश्रेण्याम् अन्तर्भूतानि चत्वारि रेल् यानानि प्रधानमन्त्रिणा नरेन्द्रमोदिना 'वीडियो काण्फ्रन्स् उद्घाटितानि। एरणाकुलं - बाङ्गलुरु, बनारस - खजुराहो, लखनौ - सहारसंपुरं, फिरोस् पुरं - दिल्ली इत्येतेषु मार्गेषु नूतनानि यानानि सेवां कुर्वन्ति।