OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 17, 2025

मणप्पुरं सेन्ट् तेरेसास् उच्चविद्यालयस्य सुरक्षितमार्ग-योजना ४१८ दिनानि पूर्तीकृतानि।

  आलप्पुष़> केरलेषु प्रसिद्धः चावर कुर्याक्कोस् नाम क्रिस्तीयपुरोहितस्य  शिष्यप्रमुखैः संस्थापितः विद्यालयः भवति सेन्ट् तेरेसास् विद्यालयः। विद्यालयेऽस्मिन् विविधानि शिक्षानुबन्धानि प्रवर्ततानि प्रचलन्ति। तेषु एकः कार्यक्रमः भवति 'सुरक्षितमार्गः'। विद्यालयस्य प्रधानमार्गः सदा याननिबिडः भवति। अतः विद्यालये गमनागमनाय मार्गस्य पारं गन्तुं क्लेशमनुभवन्ति छात्राः। अतः विद्यालयाधिकारिभिः 'सुरक्षायै एका होरा' इति नामनि योजना समारब्धा। प्रतिदिनं विद्यालये छात्राणां गमनागनकाले एकहोरापर्यन्तं वाहननियन्त्रणं छात्राणां तथा अध्यापकानां गणः एव करोति। प्रादेशिकाः प्रौढजनाः तान् प्रोत्साहयन्ति। अद्य योजनायाः ४१८ तमं दिनम् आसीत् । 

  अद्यआरभ्य इयं सुरक्षितमार्गयोजना कुट्टूकारन् ट्रस्ट् इत्यस्य CSR राशिमुपयुज्य विपुलया रीत्या समारब्धा। करुकुट्टी प्रदेशे विद्यामान SCMS यन्त्र वैज्ञानिक-विद्यालयस्य Road safety and Transportation इति विभागस्य नेतृत्वे इयं योजना केरलेषु विविधजनपदेषु प्रचलति। 

    अस्याः सुरक्षितमार्गयोजनायाः उद्घाटनं चेर्तल लीगल् सर्वीस् सोसैटी इति संस्थायाः सचिवेन बिजु के. वि महोदयेन कृतम्। छात्रेभ्यः सुरक्षानियमान् अधिकृत्य वर्गः अपि महोदयेन चालितः। कार्यक्रमे विद्यालयस्य प्रबन्धकः बहु. वैदिकः जेयिंस् पुतुशेरी अध्यक्षभाषणम् अकरोत्। प्रध्यापिका रजी एब्रहां स्वागतम् अकरोत्। मातृसमित्याः अध्यक्षा जिषा विजयकुमारः, नियमसहाय समित्याः सञ्चालिका गिरिजा के, सन्या. अनुपमा विद्यालयस्य संस्कृताध्यापकः हरिकुमारः च भाषणम् अकुर्वन्।