OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 11, 2025

 दिल्ल्यां महत्स्फोटनं - १३ जनाः हताः। २४ जनाः आहताः।

रक्तदुर्गः। 

दिल्ली> प्राचीनदिल्ल्यां 'रक्तदुर्गस्य' [Red Fort] समीपे मेट्रो निस्थानस्य प्रथमद्वारस्य समीपे महत् कार् यानस्फोटनेन १३ जनाः हताः। २४ जनाः व्रणिताः। व्रणिताः समीपस्थं लोकनायक जयप्रकाश् नारायण आतुरालयं प्रवेशिताः। 

  सोमवासरे सायं ६. ५२ वादने आसीत् स्फोटनमिति अधिकृतैः निगदितम्। प्रसिद्धस्य रक्तदुर्गस्य समीपं मन्दं चलितवत् कार् यानं महाशब्देन विस्फोटितमासीत्। अग्निप्रकाण्डः समीपस्थानि यानानि प्रसारयत्। उपदशं वाहनानि नाशितानि। 

  दिल्ल्यामशेषम् अतिजाग्रत्ता विज्ञापिता। स्फोटने भीकरबन्धः सन्दिह्यते इत्यनेन भीकरविरुद्धसंघः दुर्घटनास्थानमेत्य सूचना‌ः समग्रहीत्।