OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 15, 2025

 बिहारे विधानसभानिर्वाचनम् एन् डि ए सख्येन परिसंगृहीतम्। 

आहत्य - २४३, एन् डि ए सख्यं - २०२, महासख्यं - ३४, इतरे - ७।

एन् डि ए सख्यप्रवर्तकानां विजयाह्लादः। 

पाट्ना>  आराष्ट्रं साकूतमवलोक्यमानं बिहारराज्यस्य विधानसभानिर्वाचनस्य मतगणने सम्पन्ने भाजपा-जेडियू नेतृत्वोपेतेन एन् डि ए सख्येन महाविजयमवाप। २४३ सदस्योपेतसभायाः २०२ स्थानानि सख्येनावाप्तानि। 

  भाजपादलं  ८९ स्थानानि अवाप्य सभायां बृहत्तमं दलमभवत्। जेडियूदलेन ८५ स्थानानि सम्प्राप्तानि। जेडियूदलस्य अनिषेध्यनेता नितीश कुमारः मुख्यमन्त्री भविष्यतीति सूच्यते। शपथवाचनं १८ तमे दिनाङ्के स्यात्।

  आर् जे डी- कोण्ग्रस् नेतृत्वे विद्यमानं 'महासख्यं' दयनीयपराजयमन्वभवत्। महासख्येन ३४ स्थानानि प्राप्तानि। आर् जे डी- २५, कोण्ग्रस् - ६।