युक्रैने रष्यायाः अग्निशस्त्राक्रमणम्।
२५ मरणानि।
कीव्> टेर्णोपिल् नामके युक्रैनस्य पश्चिमभागस्थे नगरे कुजवासरे रात्रौ रष्यया कृते महति व्योमाक्रमणे २५ जनाः मृत्युमुपगताः। १६ बालकानभिव्याप्य ६६ जनाः आहताः। नवस्तरोपेतं भवनद्वयं च भग्नमभवत्।
रष्या-युक्रेनयुद्धे सार्धवर्षत्रये अतीते अपि टेर्णोपिलनगरं आक्रमणात् विमुक्तमासीत्। पूर्वीययुक्रैनात् पलायितानां जनानाम् आलम्बनमासीत् इदं नगरम्। रष्यायाः इदमाक्रमणं यूक्रेनस्य राष्ट्रपतिना वोलोदिमिर् सेलन्स्किवर्येण अपलपितम्।