OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 15, 2025

 दिल्ली भीकराक्रमणम्। 

उमर् नबी इत्यस्य पुल्वामस्थं भवनं सैन्येन विशीर्णितम्। 

उमर् नबी इत्यस्य गृहं विशीर्णावस्थायाम्।

श्रीनगरं> दिल्ल्यां रक्तदुर्गसमीपे आत्मघातिरूपेण भीकराक्रमणं कृतवतः डो उमर् नबी इत्यस्य दक्षिणकाश्मीरस्थे पुल्वामप्रदेशस्थं वासगृहं सुरक्षासेनया शुक्रवासरे प्रत्युषसि विशीर्णितम्। तत्रस्थान् बन्धुजनान् अपाकृत्यानन्तरमासीत् प्रक्रमः। ये भीकरप्रवर्तनाय सहयोगं कुर्वन्ति तेभ्यः पूर्वसूचना भवतीयं प्रक्रम इति अधिकृतैरुक्तम्। पुल्वामा भीकराक्रमणे भागं कुर्वतां गृहाण्यपि एतादृशं विशीर्णितानि आसन्। अतीते सोमवासरे  रक्तदुर्गसमीपे आपन्ने स्फोटने १३ जनाः मृताः आसन्।