हरितगमनागमनम्
'कोच्ची मेट्रो' राष्ट्रीय पुरस्कारेण बहुमानितम्।
कोच्ची> हरितगमानागमनमण्डले उपलब्धायाः श्रेष्ठतायाः कोच्ची मेट्रो रेल् यानसेवासंस्था राष्ट्रीयपुरस्कारेण सम्मानिता। केन्द्रप्रशासनस्य भवन-नगरकार्यविभागेन विधत्तः City with best green transport initiative नामकपुरस्कार एव लब्धः। हरियानस्थे गुरुग्रामे आयोजिते कार्यक्रमे केन्द्र भवन-नगरकार्यविभागस्य मन्त्री मनोहरलालः पुरस्कारमदात्।