OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 16, 2025

 काश्मीरे आरक्षकस्थाने महास्फोटनम्

नव मरणानि, ३२ जनाः आहताः। 

स्फोटनं गृहीतस्फोटकानां परिशोधनावेलायाम्।

नवदिल्ली> जम्मु काश्मीरस्थे नौगाम आरक्षकस्थाने परिपालितानि स्फोटकवस्तूनि विस्फोट्य आपन्नायां दुर्घटनायां नव अन्वेषणाधिकारिणः मृताः। ३२ जनाः व्रणिताः सन्तः आतुरालये परिचर्यायां वर्तन्ते। व्रणितेषु २७ जनाः आरक्षकाः भवन्ति। केन्द्रसर्वकारेण अन्वेषणमारब्धम्। 

  गतसप्ताहे दिल्ल्यां रक्तदुर्गसमीपे जातस्य स्फोटनस्य अंशतया अपराधिषु अन्यतमस्य डो मुसम्मिल् षक्कीलस्य हरियाने फरीदाबादस्थात् वासगृहात् निगृहीतानि स्फोटकवस्तूनि नौगामस्थे आरक्षकस्थाने परिशोधनायां कृतायां प्रमादेन विस्फोटितमासीत्। 'फोरन्सिक्' विभागस्थाः त्रयः, 'रवन्यू' अधिकारिणौ द्वौ, द्वौ आरक्षकविभागस्य छायाग्राहकौ, एकः आरक्षणाधिकारी, एकः सीवकः इत्येते मृत्युमुपगताः। प्रमादेन जाता दुर्घटना एषा, ऊहापोहानां स्थानं नास्तीति केन्द्रगृहमन्त्रालयाधिकारी  प्रशान्त लोखण्डे अवदत्।