केरले प्रादेशिकसर्वकारनिर्वाचनाय विज्ञप्तिः उद्घोषिता।
अनन्तपुरी> केरलराज्ये तद्देशीयस्वयंशासनसंस्थाभ्यः निर्वाचनाय दिनाङ्कः उद्घोषितः। निर्वाचनाय चरणद्वयं भविष्यति। डिसम्बर् नवमदिनाङ्के सम्पत्स्यमाने प्रथमचरणे तिरुवन्तपुरं जनपदात् एरणाकुलपर्यन्तं सप्तसु जनपदेषु मतदानप्रक्रिया भविष्यति। डिसम्बर् ११ तमे दिनाङ्के सम्पत्स्यमाने द्वितीयचरणे इतरेषु सप्तजनपदेषु निर्वाचनं भविष्यति। मतगणना १३ तमे दिनाङ्के अस्ति।