OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 25, 2016

ओडीषा-आन्ध्रा सीमायां संघट्टने २४ मावोवादिनः मारिताः।
पेदपरिमि, आन्ध्रप्रदेश> ओडीषा - आन्ध्राप्रदेशराज्ययोः सीमायां वनान्तर्भागे गतदिने उषःकाले आरक्षकबलेन कृते भुषुण्डिप्रयोगे नेतृभिः सह चतुर्विंशति मावोवादिनः मृताः। सीमाप्रदेशे प्रचलन्तं तेषां मेलनं विज्ञाय राज्यद्वयोः आरक्षकबले सम्भूय आगतवति संघट्टनं संवृत्तमासीत्। ओडीषायाम् उदयः इति उच्यमानेन गजराल रवि नामकेन नेत्रा सह केचन प्रमुखाः नेतारः संघर्षे मारिताः इति सन्देहः वर्तते।

राष्ट्रान्तर-भीकरतां विरुद्ध्य भारतेन सह बहरिन् अपि
बहरिन् >भारतस्य आभ्यन्तरमन्त्री राजनाथसिंहः बहरिन् राष्ट्रं संदृष्टवान् । त्रिदिवसीय सन्दर्शने सः बहरिनस्य राज्ञं हामत् बिन् इसा अल् खलीफां तथा प्रधानमन्त्रीं खलीफा बिन् सल् मान् अल् खलीफाम् आभ्यन्तर मन्त्रीं  रषीद् बिन् अब्दुल्ला अल् खलीफां च मिलित्वा विद्यमानां समस्याम् अधिकृत्य  संभाषणमकरोत् ।
 भाविनिकाले भारतं बहरिन् च मिथः राष्ट्रयोः सुरक्षायै राष्ट्रान्तर-भीकरतां विरुद्ध्य च संयुक्ततया कार्यं कर्तुं निश्चितः इति सिंहेन उक्तम्।

भद्रं ते विराट!
कोच्ची>ऐ एन् एस् विराटाय स्वस्ति! भारतनौसेनायाः अभिमानभाजनत्वेन वर्तितायै ऐ एन् एस् विराट् नामिकायै  युद्धनौकायै कोच्चीतः स्वस्तिवचनम्! विश्वेपि वरिष्ठा विमानवाहिनिनौका विराटः  निष्क्रियकरणाय (De Commissioning) एव कोच्ची नौकाश्रयात् मुम्बैय्यां नाविकास्थानं प्रति नीता।
    भारतीयनौकासेनायाः अविभाज्यांशत्वेन दशकत्रयं यावत् प्रवर्तननिरता आसीदियं विमानवाहिनी। श्रीलङ्कायां सम्पन्नां ओपरेशन् जूपिटर्, कार्गिल् मध्ये ओपरेषन् विजय् , लोकसभाक्रमणानन्तरं संवृत्ता ओपरेषन् पराक्रमः इत्यादिषु विराटः भागभागित्वम् कृतवान्। प्रत्यर्पणानन्तरं विराटस्य भविष्यः  कीदृश इति चिन्तनीयः।