OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 24, 2016

 एष्यन् चाम्प्यन्स ड्रोफि हॉकिक्रीडायां भारतेन जापनीयदेश: पराजित:।
कुवाण्डन्> (मलेष्या)  केरलदेशीयस्य श्री पी आर् श्रीजेषस्य नेतृत्वे भारतीय-संघेन एष्यन् चाम्प्यन्स्स् ड्रोफि हॉकिक्रीडायां १०-२ इति अङ्गै: जापनीयदेश: पराजित:। स्पर्धायां सविशेषः  स्पर्धाया: नेतुः रूपीन्दरपाल सिंहस्य हब्ल्ल् हाड्रिक् आसीत्। भारतदेशस्य,जापनीयदेशस्य च ७५ तमा स्पर्धा आसीत् गुरुवारस्य क्रीडा। एतासु ६७ क्रीडासु भारतराष्ट्रं एतावत् पर्यन्तं जयति स्म।

"समाराध्यः" नावश्यकः इति तमिल् नाट् राज्यपालः। 
चेन्नै >आत्मानः संबुद्धौ "समाराध्यः"(His Excellency ) इति पदं निवारणीयमिति तमिल् नाट् राज्यपालेन विद्यासागर् रावुना निर्दिष्टम्! स्वस्य नाम्ना सह 'बहुमान्यराज्यपालः' इति  पदं पर्याप्तमिति राज्यपालकार्यालयात् प्रसारितायां पत्रकारटिप्पण्यां निर्दिश्यते।
    विदेशराष्ट्रेषु अयमुपचारः अद्यापि अनुवर्तते इत्यतः समाराध्यः इत्यभिसंबुद्धिः विदेशप्रतिनिधीनां कृते प्रयोक्क्ष्यते इति उक्तमस्ति। २०१२ तमे राष्ट्रपतिः प्रणब् मुखर्जी , २०१३ तमे भूतपूर्वः महाराष्ट्र राज्यपालः के .शङ्करनारायणः , ततः केरलानां राज्यपालः पि.सदाशिवम् इत्येते च समाराध्यसंबुद्धिः नावश्यकः इति निर्दिष्टवन्तः।