OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 17, 2016

स्वकीयभूमौ भीकरता निरुद्धव्या - ब्रिक्स्। 
गोवा> स्वकीयभूमौ विद्यमानं भीकरप्रवर्तनं प्रथमं निरुद्धव्यमिति ब्रिक्स् शिखरसम्मेलनं सर्वाणि राष्ट्राणि अभ्यर्थयते। भीकरतां विरुद्ध्य भारतेन निर्दिष्टा समग्रसन्धिः ऐक्यराष्ट्रसभया प्रवृत्तिपथमानेतव्या इति सम्मेलनेन आदिष्टम्।
   गोवायां बनोलिम् प्रदेशे सम्पन्ने शिखरसम्मेलनानन्तरं पञ्च अङ्गराष्ट्राणि संयुक्ततया प्रकाशिते प्रस्तावे भवत्यं निर्देशः। भीकरतां निरोद्धुं तीक्ष्णः क्रियाविधिः आवश्यक इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना आदिष्टम्। पाकिस्थानं भीकरतायाः स्तूपविक्रयी इति मोदी विशेषणमकरोत्।