OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 11, 2016

 सुशक्तराष्ट्राय सशक्तं बलमपेक्षते - प्रधानमन्त्री। 
नवदिल्ली >यदि राष्ट्रस्य सैन्यम् ऊर्जस्वलं भवति तर्हि राष्ट्रं सुशक्तं भवेदिति पण्डिट् दीनदयाल् उपाध्यायस्य भणितमुद्धृत्य भारतप्रधानमन्त्री नरेन्द्रमोदी अब्रवीत्। भारतं पाकिस्थानं विरुध्य आयोजितम् आकस्मिकाक्रमणं संस्मृत्य एव मोदिवर्यस्य प्रतिकरणम्। दीनदयाल् उपाध्यायस्य सम्पूर्णकृतीनां प्रकाशनं निर्वहन् भाषमाणः आसीत् प्रधानमन्त्री।
     राष्ट्रं सुशक्तं भवति इत्यस्य यस्यकस्यापि प्रतिद्वन्दी भवतु इत्यर्थः नास्ति। अस्माकं सुरक्षा एव तेन लक्ष्यते। प्रातिवेशिकराष्ट्रं कदापि न लक्ष्यीक्रियते। अपि च मात्सर्ययुक्ते लोके राष्ट्रस्य सुरक्षा अनिवार्या  भवति इत्यपि मोदिना उक्तम्।

पुनर्विन्यासः न समाप्तः, बहिर्भूताः अध्यापकाः क्लिश्यन्ते। 
कोच्ची >केरळे संरक्षिताध्यापकानां पुनर्विन्यासक्रियाविधयः अद्यावधि न समाप्तिमुपगताः इत्यतः स्थानभ्रष्टाः नवशतम् अध्यापकाः महान्तं क्लेशमनुभवन्ति। एते सर्वे सर्वकारस्य निर्देशमनुसृत्य मातृविद्यालयं प्राप्य उपस्थितिं  कृतवन्तः तथापि मासत्रयं यावत् वेतनं नोपलब्धवन्तः।
    विनष्टपदानाम्  अध्यापकानां पुनर्विन्यासमधिकृत्य सामान्यशिक्षाविभागेन आदेशः विज्ञापितः। किन्तु अस्यां नामावल्यां ये नान्तर्भूताः, ते अधुना त्रिशङ्कुस्वर्गप्राप्ताः अभवन्।