OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 9, 2016

 शान्तेः कृते नोबेल् पुरस्कारः कोलम्बियाराष्ट्रपतये।
ओस्लो - विश्वशान्त्यर्थं दीयमनाय नोबेल् पुरस्काराय अस्मिन् संवत्सरे कोलम्बिया देशस्य राष्ट्रपतिः हुवान् मानुवल् सान्टोसः अर्हति। राष्ट्रे द्विपञ्चाशत् वर्षाणि यावत् अनुवर्तितम् आभ्यन्तरयुद्धं शमयितुं कृताय प्रयत्नाय एव पुरस्कारः।
    आधुनिककाले विद्यमानेषु कालदैर्घे्येन बृहत्तमेषु आभ्यन्तरयुद्धेषु अन्यतमाय शान्तिसम्पूर्णं  शाश्वतपरिहारं कर्तुं सान्टोसः प्रयतितवान् इति पुरस्कारसमित्या निरीक्षितम्।

मात्यू प्रचण्डवातः - मरणानि उपसहस्रम्।
फ्लोरिडा > अमेरिक्काभूखणडे हेय्तिप्रदेशे ताण्डवनृत्तं कृतवान् मात्यु इत्यावर्तप्रचण्डवातः उपसहस्रं जनान् कालपुरीम् अगमयत्। दशसहस्राणां तद्देशवासिनां भवनानि विशीर्णमुपगतानि।
   इदानीं फ्लोरिडाप्रविश्यां प्रविष्टः मात्यू तस्य संहारनृत्तम् अनुवर्तते। फ्लोरिडायां एतदाभ्यन्तरे चत्वारि मरणानि सूचितानि। फ्लोरिडा, जोर्जिया, दक्षिणकरोलिना इत्येतासु प्रविश्यासु अपि राष्ट्रपतिना बराक् ओबामा वर्येण त्वरितशासनप्रक्रिया प्रख्यापिता। प्रतिहोरां ११० योजना वेगेनैव प्रचण्डवातः वाति।

 RN1आलियार् जलसमस्याविषये चर्चा नास्ति-तमिल्नाटु।
 नवदहली > परम्पिक्कुलम्-आलियार् जलवितरणविषये चर्चा आवश्यकी इति केरलस्य निर्देशः तमिल्नाटु सर्वकारेण तिरस्कृतः। विषयेऽस्मिन् चर्चायै ओक्टोबर् २१ दिनाङ्के संयुक्तजलक्रमीकरणयोग: सञ्चालनीय: इति केरलस्य निर्देशः तमिल्नाटु सर्वकारेण तिरस्कृतः। योगेऽस्मिन् तमिल्नाटु सर्वकारस्य भागभाक्त्वं न भविष्यतीति अधिकृतैः सूचितम्। परम्पिक्कुलम्-आलियार् पद्धतिमनुसृत्य केरलस्य कृते दीयमानं जलं लब्धुम् आवश्यकः व्यवहारः केन्द्रसर्वकारेण स्वीकरणीयः इति संसूच्य केरलसर्वकारेण निवेदनं दत्तमासीत्।