OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 22, 2016

राष्ट्रिय-संस्कृतसंगोष्ठी भाषापितुः भूमाै।
 मलप्पुरम् > अस्मिन् संवत्‍सरस्य राष्ट्रिय-संस्कृत-संगोष्ठी केरळे मलप्पुरं जनपदे ह्यः संवृत्तम्। मळयाळभाषायाः पिता इति प्रसिद्धः तुञ्चत्त् आचार्यस्य विस्तृते पावने गृहाङ्गणे आसीत् सङ्गोष्ठ्याः आयोजनम्। मलयाळभाषायाः प्रथितेन कविना आलङ्कोट्‌ लीलाकृष्णमहोदयेन उद्घाटिता संगोष्ठी। संस्कृतं केवलं भारतस्य भाषा न विश्वभाषायाः जननी इति आलङ्कोट् महोदयेन उक्तम्। संस्कृतभाषया एव विश्वमानव-सङ्कल्पः लोकाय लब्धः। संस्कृत-भाषापठनेन ग्रन्थाध्ययेन च मानवसमूहे शान्तिरेव जयते। वेदेषु उपनिषत्सु च विद्यमान महत्सन्देशान् अवगन्तुं संस्कृतभाषा प्रथमतया ज्ञेया। तदनन्तरं स्वयमेव पठित्वा तस्मिन् विद्यमानं सत्यं द्रष्‍टुं प्रयत्नं कुर्वन्तु। तदेव उचितमिति तेन उक्तम्।

बि एस् एफ् सैन्यस्य प्रत्याक्रमणेन सप्त पाक् सैनिकाः मारिताः।
जम्मू>आक्रमणविरामसन्धिम् उल्लङ्घ्य भुषुणडिप्रयोगं कृतवते पाक् सैन्याय भारतसीमासुरक्षासेनया शक्ता प्रतिक्रिया दत्ता। सप्त पाकिस्थानसैनिकाः कश्चन भीकरश्च गोलकास्त्रप्रयोगे हताः। कश्चन भारतसैनिकः गुरुतरेण व्रणितः।
    जम्मुकाश्मीरस्य अन्ताराष्ट्रसीमायां कत्वा जनपदे हीरनगरस्य भारतसेनायाः वासस्थानं प्रति शुक्रवासरे  पाकिस्थानसैन्यस्य आक्रमणं प्रवृत्तम्। तत्रैकः सैनिकः गरुनामसिंहनामकः व्रणितः। झटित्येव भारतस्य प्रत्याक्रमणं सम्पन्नम्।


  प्रवेशन परीक्षा: ऑणलैन रूपेण
 नवदेहली >प्रवेशन परीक्षा: ऑणलैन रूपेण कृत्वा निश्चितसमये प्रवेशनं कर्तुं इति उद्यिश्य प्रत्येक समितिं आयोजयितुं केन्द्रमानव-विभव विकसनमंत्रालयस्य निश्चयः । नेट्ट, जे इ इ , नीट्ट आदि सी बि एस ई  द्वारा आयोजिता सर्वा: परीक्षा: च नाषणल टेस्टिङ् सर्वीसस्य अन्त: आचरणं कर्तुं एव केन्द्र मानव विभवविकसन-मंत्रालयस्य प्रोद्यमम्। विश्वव्यापिने अमेरिका देशस्य उपचारेण एड्यूकेषणल् टेस्टिङ् सर्वीसस्य संयोजनेन, भविष्यति प्रत्येकसमित्या: संघटनं । अनया निश्चितसमयेन परीक्षाचरणं फलप्रख्यापनं च भविष्यति। एतेन प्रवेशनं सरलं भविष्यति। अत: अयं समित्या ललितयारित्या करणीय: इति केन्द्रमानवविभव विभागस्य सचिव: श्री प्रकाशजावदेक्कर सी बि एस् ई संस्थां प्रति  निर्देशं अददात्।