OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 16, 2016

भारत-न्यूसीलान्ट् एकदिन क्रिक्कट् परम्परा अद्य आरभते।
धर्मशाला>निकषस्पर्धासु प्राप्तस्य ३-० विजयस्य आत्मविश्वासेन भारतम् अद्य आरभ्य न्यूसीलान्टं विरुद्ध्य एकदिनपरम्परायां स्पर्धते। पञ्चसु क्रीडासु प्रथमा अद्य धर्मशालायां प्रचलति। भारतस्य ९००तम एकदिनस्पर्धा अस्त्येषा।
    महेन्द्र सिंह धोनी एव नायकत्वं वहति। न्यूसीलान्टं प्रति स्वदेशे एकदिनपरम्परायां पराजयः नाभूदिति चरित्रोल्लेखः धोनिवर्याय ऊर्जस्वलतां प्रददाति।                        

वाराणस्यां जनसम्मर्देन २४ अपमृतयः।
 वाराणसी>आत्मीयनेतुः बाबा जय् गुरुदेवस्य अनुयायिभिः आयोजिते धार्मिककार्यक्रमे सञ्जाते महासम्मर्दे चतुर्विंशति जनाः अपमृत्युं गताः। तेषु १४ महिलाः भवन्ति। उपषष्ठाः जनाः आहताः।
      वाराणस्यां रामनगरे राज् घट् सेतुसमीपे अासीत् इयं दुर्घटना। कार्यक्रममध्ये कश्चन रुद्धश्वासेन मृतः। एतदनुबन्ध्य सञ्जातेन अन्योन्यसम्मर्देन एव दुर्घटना जातेति आरक्षकवृन्दैः उक्तम्। किञ्च ३००० जनाः भागभागित्वं करिष्यन्तीति प्रतीक्षिते सति ८०,०००[अशीतिसहस्रं] जनाः आगतवन्तः। एतदपि दुर्घटनायाः कारणमिति उच्यते।

केरळ-राज्यस्तरीय सि बि एस् ई कलोत्सवः अटिमाल्याम्।
                 कोच्ची> राज्यस्तरीय सि बि एस ई कलामेला नवंबर मासे१७ त: २० पर्यन्तं अटिमालि विश्वदीप्ति सि एम् ऐ पब्लिक् विद्यालये आयोक्ष्यते। कलामेला समिते: आयोजकः फा.डोमि नम्ब्यापरम्पिल, समित्‍यङ्गाः के उण्णिकृष्णन् महोदय:,    डा. इन्दिरा राजन् प्रभृतय:प्रमुखा: कलोत्सवसमित्या: उपवेशने भाग: भाज: आसन्। राज्यस्तरीयात्‌ १३०० सि बि एस्  ई विद्यालयात् उप अष्टसहस्रं (८०००) छात्रा: अस्य कलामेलायां स्पर्धिष्यन्ते। चत्वारि दिनानि प्रचलिष्यति कार्यक्रमा: २२ मञ्चेषु १४४ इत्येतन्नामका: स्पर्धा आयोक्ष्यते।