OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 12, 2016

पुनर्विन्यासः न समाप्तः, स्थानभ्रष्टाः अध्यापकाः क्लिश्यन्ते।
कोच्ची>केरळे संरक्षणीयाध्यापकानां पुनर्विन्यासक्रियाविधयः अद्यावधि न समाप्तिमुपगताः इत्यतः स्थानभ्रष्टाः नवशतम् अध्यापकाः महान्तं क्लेशमनुभवन्ति। एते सर्वे सर्वकारस्य निर्देशमनुसृत्य मातृविद्यालयं प्राप्य उपस्थितिं  कृतवन्तः तथापि मासत्रयं यावत् वेतनं नोपलब्धवन्तः।
    विनष्टपदानाम्  अध्यापकानां पुनर्विन्यासमधिकृत्य सामान्यशिक्षाविभागेन आदेशः विज्ञापितः। किन्तु अस्यां नामावल्यां ये नान्तर्भूताः, ते अधुना त्रिशङ्कुस्वर्गप्राप्ताः अभवन्।

 Ps.2>अफगानिस्तानस्य राजधान्याम् आतंक्याक्रमणम्
काबूल् >अफगानिस्तानस्य राजधान्यां काबुलनगर्यां  शियादरगाह इति पूजास्थले संजाते आतंक्याक्रमणे चतुर्दशजनाः कालकवलिताः  षडविंशतिश्च व्रणिताः संसूच्यन्ते, मृतकेषु एकः आरक्षिभटः अपि सम्मिलितः| आक्रमणमिदं मोहर्रमपर्वणः प्राक् विहितम् आक्रमणकारिणः पूर्वमेव तस्मिन् स्थले प्रविष्टाः अनन्तरं बंधने निगड्य गोलिका प्रहृताः, अधिकारिणां मतानुसारि आतंकिभिः सैन्यपरिधानस्यावरणं विहितम्, ध्यानस्पदं यत् समेपि आतंकिनः निहताः

जयललितायाः उत्तरदायित्वानि पनीर् शेल्वं प्राप्नुवन्ति।
    चेन्नै> आतुरालयं प्रविष्टायाः तमिल् नाट् मुख्यमन्त्रिण्याः जयललितायाः कर्तव्यानि राज्यधनमन्त्रिणे पनीर शेल्वाय समर्पितानि। राज्यपालस्य  विवेचनाधिकारम् उपयुज्यैव अयं क्रियाविधिः।
     जयललितायाः आतुरालयवासः अनिश्चितकालम् अनुवर्तते इत्यतः अयमेव मार्गः करणीयः इति राज्यपालवृत्तैः निगदितम्। किन्तु मुख्यमन्त्रिस्थाने जयललिता अनुवर्तिष्यते। तथापि मन्त्रिसभामेलनेषु पनीर् शेल्वः अध्यक्षपदमलङ्करिष्यति इति राज्यपालेन विद्यासागर् रावु वर्येण स्पष्टीकृतम्।
     चिकित्सार्थं चेन्नै अप्पोलो आतुरालयं प्रविशत्याः जयललितायाः  विंशति दिनानि अतीतानि। तत्र अतितीव्रपरिचरणविभागे सत्यां राज्यशासनं स्तम्भितमिति विपक्षारोपणं प्रतिरोद्धुं तथा च प्रतिव्यवस्था आवश्यकीति केन्द्रसर्वकारस्य तात्पर्यं च परिगणय्य जयललितायाः उपदेशानुसारमेव अयं क्रियाविधिः।