OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 4, 2016

आगोलतापनं विरुध्य भारतस्य युद्धप्रख्यापनम् - पारीस् अभिमतं स्थिरीकृतम्।
न्यूयोर्क्> पर्यावरणपरिवर्तनं सम्बध्य पारीस् अभिमतं प्रवृत्तिपथम् आनयिष्यतीति विज्ञापनं भारतेन ऐक्यराष्ट्रसभायै समर्पितम्। राष्ट्रपतिना प्रणब् मुखर्जी वर्येण हस्ताक्षरीकृतं स्थिरीकरणपत्रं गान्धिजयन्तीदिने भारतस्य स्थिरप्रतिनिधिः सय्यिद् अक्बरुद्दीनः ऐक्यराष्ट्रसभायाः सन्धिविभागाध्यक्षाय सान्टियागो विलाल् पाण्डवे समर्पितवान्।
     आगोलतापननियन्त्रणार्थंम् उद्दिष्टे अनुज्ञापत्रे भारतसहितानि १८५ राष्ट्राणि गतडिसंबरमासे पारीस् मध्ये हस्ताक्षरं कृतवतः आसन्। एषु ६१ राष्ट्रैः अनुज्ञापत्रस्य क्रियाविधिप्रख्यापनं कृतम्। अधुना भारतस्यापि स्थिरीकरणप्रख्यापनेन अस्मिन् संवत्सरे एव सन्धिः प्रवृत्तिपथम् आनेष्यति।

केरळे ऐ एस् शाखा - दशाङ्गसंघः  गृहीतः।
कण्णूर्>इस्लामिक् स्टेट् ऐ एस् इति भीकरसंस्थां प्रति युवकान् आकृष्टुं केरले प्रयोगाभ्यासं लब्धाः ३० अङ्गसंघः प्रवर्तते। अन्सार् उल् खलीफा इत्यस्मिन् नाम्नि एव ऐ एस् संस्थायाः केरळविभागः स्वयं व्यवह्रियते।
    गतदिने कण्णुरस्थे कनकमला, कोष़िक्कोटस्थे कुट्ट्याटि, तमिळ्नाटस्थे कोयम्पुत्तूर् तथा तिरुनल्वेली इत्यादिभ्यः प्रदेशेभ्यः दश युवकाः एन्  ऐ ए संस्थया प्रगृहीताः।
    कोच्चीमध्ये सम्पन्नस्य जमा अत्ते इस्लामी सम्मेलनस्य वेदिकां प्रति लोरियानविध्वंसनसहिताः नैकाः पद्धतयः तैः आकल्पिताः आसन्। केरलस्य चतुरः प्रमुखान् उन्मूलयितुमपि पद्धतिरासीत् इति सूचना वर्तते।