OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 17, 2016

ज्वरतप्तं भूमातरं रक्षितुं - हरितगृह-वातक-व्यवस्था। भारतेन सह १९७ राज्यानि।
कगाल > (रुवाण्ट) शीतीकरणोपकरणेषु उपयुज्यमानः हैड्रो फ्लूरो कार्बण् (HFC) वातकानां निर्माणं न्यूनीकर्तुं भारत-चैनाअमेरिकादीनि द्विशतं राष्ट्राणि हस्ताक्षरमकुर्वन्। वातावरण व्यत्ययं विरुद्ध्य भुवनैक-सख्यस्य प्रथम पदन्यासः एवायम् । वातावरण व्यत्ययस्य कारणभूतः हरितगृहवातकानां मध्ये अत्यन्त-मापत्करः भवति HFC. अङ्गाराम्लादपि दशसहस्रगुणितं मलिनीकरणमेव एतेन क्रियते।
2045 संवत्सरात् पूर्वं HFC उपयोगः प्रतिशतं पञ्च अशीति (८५% ) पर्यन्तं न्यूनीकरणमेव लक्ष्यम् इति सप्तनवत्यधिकशतम् राष्ट्रैः अङ्गीकृते व्यवस्थापत्रे लिखितम्। २०१९ जनुवरिमासस्य प्रथमे दिने व्यवस्था प्रबला भविष्यति। विकसितराष्ट्राणि प्रथमं उपयोगं न्यूनीकरिष्यन्ति। अनन्तरं विकस्वर-राष्ट्राणि अपि न्यूनीकरणे  भागभाजःभविष्यन्ति। गतवर्षस्य पारिस् व्यवस्थानुसारं हरितगृहवातकानां बहिर्व्यापन न्यूनीकरणाय भारत-कानडा आदिभिः राष्ट्रैः गतसप्ताहे यत्नः आरब्दः।

कूटंकुलं - ५,६,एककयोः निर्माणाय सम्मतिः।
नवदिल्ली> तमिळ् नाट् राज्ये कूटंकुलं आणवविद्युन्निलयस्य पञ्चम-षष्ठ एककयोः[यूऩिट्] निर्माणाय ऱष्या-भारतदेशयोः मध्ये सम्मतिपत्रस्य अन्तिमरूपं सम्पन्नम्। गोवायां प्रचाल्यमाने ब्रिक्स् सम्मेलनमध्ये भारतप्रधानमन्त्री नरेन्द्रमोदी रष्याराष्ट्रपतिः व्लादिमिर् पुतिनः च एतदधिकृत्य चर्चां कृत्वा अधिशासनीयां विज्ञप्तिं करिष्यतः।

 मातृभूमि साहित्यपुरस्कारः सि राधाकृष्णाय।
कोष़िक्कोट्> केरलस्य प्रौढेषु साहित्यपुरस्कारेषु अन्यतमः मातृभूमि साहित्यपुरस्कारः अस्मिन् संवत्सरे सि राधाकृष्णाय प्राप्यते। आख्यायिकाकारः, कथाकारः, अध्यापकः, वृत्तान्तपत्रप्रवर्तकः इत्यादिषु विविधमण्डलेषु स्वकीयप्रतिभां प्रकाशितवानयं साहित्यकारः।लक्षद्वयरूप्यकाणि, प्रशस्तिपत्रं, एम् वि देवेन विरचितः शिल्पश्च पुरस्काररूपेण दीयन्ते।


 उत्तरप्रदेशे नक्सलैट्जनाः गृहीताः
लक्नौ - उत्तरप्रदेशराज्ये हिन्डण् नामके स्थाने नव नक्सल् दलीयाः प्रवर्तकाः ए टि एस् नामकैः आरक्षकैः गृहीताः। गोलिकाशस्त्राणि , ग्रनेडादयः स्फोटकाः , विस्फोटकवस्तूनि इत्यादीनि महदायुधसञ्चयानि संगृहीतानि।