OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 14, 2016

गुट्टेरस् यू एन् अध्यक्षः। 
यू एन् - ऐक्यराष्ट्रसभायाः आगामी अध्यक्षरूपेण [सेक्रटरि जनरल्] पोर्चुगल् देशस्य भूतपूर्वप्रधानमन्त्री अन्टोणियो गुट्टेरसः नियुक्तः। आगामी जनवरी प्रथमदिनाङ्के सः कर्तव्यतां स्वीकरिष्यति। पञ्चसंवत्सराणि एव कालपरिधिः।
     इदानीन्तनाध्यक्षस्य बान् कीमूण् वर्यस्य स्थाने एव गुट्टेरस् वर्यस्य नियुक्तिः। दशाब्दं यावत् ऐक्यराष्ट्रसभायाः अभयार्थिरक्षासंयोजकः आसीदेषः।

वार्ता मुक्तकानि
१-प्रधानमन्त्रि नरेन्द्रमोदी अद्य मध्यप्रदेशस्य भोपाल नगरे शौर्यस्मारकस्योद्घाटनं करिष्यति।

२-प्रधानमंत्री श्रीमोदी अष्टमब्रिक्‍सशिखरसम्‍मेलने  भागग्रहणाय  गोआ राज्ये गमिष्यति ।

३-रक्षामंत्रालयेन रक्षाकर्मिणां विकलांगता पेंशन इति सेवानिवृत्तिवेतनप्रकरणं सप्तमवेतनायोगस्य असंगतिः समित्यै प्रदत्तम् ।

४- संसदः एकमासात्मकं शीतकालीनसत्रं नवम्‍बरमासस्य षोडषदिनांकात् प्रारप्स्यते ।

५- वित्‍तमंत्रिणा अरूणजेटलिना प्रोक्तं यत् आन्तरिकस्‍तरे आर्थिकोनयन्नाय वैश्विकमान्द्यस्य प्रतिकूलप्रभावः नैवोत्पत्स्यते ।

६- रष्यायाः राष्‍ट्रपतिना व्‍लादिमीरपुतिनेनोक्तं यत् रष्या-भारतयोर्मिथः आर्थिकसहयोगाय  ऊर्जाक्षेत्रस्य महत्‍वपूर्णभूमिका भविष्यति ।

७- टेनिसक्रीडायां लियेंडरपेसेन निजसहक्रीडकेन सह ताशकंदटेनिस प्रतियोगितायाः प्रागुपान्त्यचक्रे प्रवेशो लब्धः|