OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 6, 2016

कावेरीजलं दास्यतीति कर्णाटकम्। 
बङ्गुलुरू >कावेरीनदीतटे वर्तमानेभ्यः कृषकेभ्यः कार्षिकवृत्यर्थं नदीजलं दातुं सन्नद्धमिति कर्णाटकराज्येन निश्चितम् । एतदनुकूलं निश्चयपत्रं [प्रमेयः] कर्णाटकस्य द्वाभ्यां विधानसभाभ्यामपि अङ्गीकृतम्।
     कावेरीजलं तमिळ्नाट् राज्याय निश्चयेन देयमिति सर्वोच्चन्यायालयस्य कर्कशादेशस्य आधारे एवायं निश्चयः। विधानसभायाम् अवतारिते निश्चयपत्रे यद्यपि तमिळनाट् राज्यस्य नाम नोल्लिखितं तथापि तत्रत्यानां कृषकाणामपि जलं लभ्येत। किन्तु दीयनानस्य जलस्य परिमाणमधिकृत्य निर्णयः नाभवत्।