OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 14, 2016

 भारतं विरुद्ध्य विस्तृतं दक्षिणेष्यैक्यं रूपवत्कर्तुं पाकिस्थानः।
इस्लामबाद्>सार्क् मैत्र्यां भारतस्य अधीशत्वं विरुध्य चीना-इरानादिदेशानां विस्तृतं किमपि दक्षिणेष्यीयम् आर्थिकसख्यं रूपवत्कर्तुं पाकिस्थानस्य परिश्रमःइति  सूचनाः। सार्क् समित्यां भारतस्य अप्रमादित्वम् उपशमयितुमेवायं प्रयत्न  इति पाक्दिनपत्रिकया डोण् इत्यनया सूचितम्।
       अष्टाङ्गयुक्ते सार्क् सख्ये अफ्गानिस्थानः बङ्गलादेशश्च भारतस्य शक्तौ अनुकूलिनौ स्तः इदानीम्। मालिद्वीपः, नेप्पालः श्रीलङ्का च पाकिस्थानेन सह सुदृढसौहार्दे वर्तमानाः अपि भारतं विरोद्धुं अशक्ताः भवन्ति। अस्मिन्नवसरे एव चीना इरानः इत्यादिभिः अन्यैः मध्येष्याराष्ट्रैः  सह सहयोगेन नुतनीं कांचन समितिं रूपवत्कर्तुं  पाकिस्थानः चिन्तयति।

 नालिकां सम्यक् कृत्वा  फिग् ली पितामहः गिन्नस् पुस्तकं प्रविष्टवान्।
टोरोन्टो > जलनिर्गमन नालिकायाः दोषपरिहरण-समये मृत्युः भविष्यति तर्हि  ससन्तोषं स्वीकरोमि इति सः वदति। पञ्चषष्टि संवत्सराणि यावत् नालिकायाः दोषपरिहारकर्मसु व्यापृतस्य अस्य नाम गिन्नस् रेखायां आगतः अस्ति। द्वानवति वयस्क: कानडा देशीयः लोण् फिग् ली एव निरन्तरकर्मणा एवं लोकान् अतिशेते।

द्वितीये लोकसंग्रामे संयुद्ध्य आगतेन तेन ब्रोड् वे हीट्टिङ् लिमिट्टड् इति नाम्ना नालिकाकर्मकराणां संघः आयोजितः। ततः यावत्पर्यन्तं कुशलः कर्मकरः इति ख्यातिं सम्पादितवान्। पञ्चाशतधिक एकोनविंशति शततमे (१९५०) पठितेन अनेन कर्मणा सहर्षम् अद्यापि कालं याप्यते। अस्मिन् द्वानवति वयसि अपि विना वार्द्धक्यं अरोग दृढगात्रत्वेन एते विराजन्ते। आलस्यं विना स्वकर्मणि सानन्दं सोत्साहं वर्तते इति अस्य स्वास्थ्यस्य रहस्यम् इति सः वदति।

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।