OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 11, 2016

सम्प्रतिवार्तायां संस्कृतपत्रकारितायां पठनवर्गः।
सम्प्रतिवार्ताः अन्तर्जाल-संस्कृतदिनपत्रिकाद्वारा  संस्कृतपत्रकारितायां पठनवर्गः आरभ्यते। अस्मिन् विजयदशमीदिने शुभारम्भः भवति। संस्कृत-बिरुदधारिणः तथा अध्यापकछात्रान् च उद्दिश्य आयोज्यमानः अयं पठनवर्गः षण्मासपर्यन्तं प्रचाल्यमानैः  अभ्यासकार्यक्रमैः भविष्यति। एतादृश ऑण् लैन्‌ वर्गः भारते प्रप्रथममेव। वर्गस्यास्य निर्देशकः प्रौढः वार्तावतारकः डॉ. बलदेवानन्दसागरः भवति ।

अद्य विजयदशमी।
कालटी> विजयदशमी विद्यारम्भाय शुभदिनमिति गण्यते । अतः मन्दिरेषु अन्येषु सांस्कृतिकनिलयेषु च विद्यारम्भकार्यक्रमाः आयोज्यन्ते।
    कर्णाटकायां कोल्लूर मूकाम्बिकायां तथा  केरलेषु तिरूर् तुञ्चन्परम्प्, चिट्टूर् तुञ्चन् मठं, कालटि आदिशङ्कर जन्मस्थानं, पनच्चिक्काट्, परवूर् , चोट्टानिक्करा, इत्यादिषु प्रसिद्धेषु देवीमन्दिरेषु च सहस्रशः बालकाः विद्यादेवताम् उपासयन्तः अक्षरशिक्षाप्रारम्भं कुर्वन्ति।


शीतलपानीयेषु आरोग्यहानिकराः लोहाः।
नवदेहली>भारते विपणनं क्रियमाणेषु कोक्कोकोला, पेप्सी, स्प्रैट् मौण्टन् ड्यू, सेवन् अप्  इत्यादिषु शीतलपानीयेषु मानवस्वास्थ्यविनाशकारिणः पञ्चविधाः लोहांशाः अन्तर्भवन्तीति बहिरागतैः वृत्तान्तैः सूच्यते। लेड्, क्रोमियं, काड्मियं, डि ई एछ् पि,फत्तालेट् एते लोहांशाः एव कोल्क्कत्तायां विद्यमानायां All India Institute of Hygiene and Public health नामिकायां संस्थायां कृते समीक्षणे प्रमाणीकृताः। केन्द्रस्वास्थ्यमन्त्रालयस्य निर्देशानुसारमासीत् समीक्षणम्।
 बालकेभ्यः रुच्यमानं पानीयम् इत्यस्मात् इदं समीक्षणफलम् आशङ्काजनकं वर्तते। मस्तिष्क-वृक्कादि अवयवेषु प्रतिकूलतया प्रवर्तते इत्यतः बालकानां शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।
रुचिकरं यत् तत् सर्वं न भोक्तव्यम् , तत् अस्माकं शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।